________________
( १७ )
सम्भवतः श्रीजटासिंहनन्दीकृतः 'श्रीवीरपञ्चकल्याणकस्तवः'
(ईस्वी सप्तमशताब्द्याः मध्यभागः प्रायः)
(विषमवृत्तम्) विबुधपतिखगपवरपतिधनदोरगभूतयक्षपतिमहितम् । अतुलसुखविमलनिरुपमशिवमचलमनामयं हि संप्राप्तम् ॥ १ ॥ कल्याणैः संस्तोष्यये पञ्चभिरनघं त्रिलोकपरमगुरुम् । भव्यजनतुष्टिजननैर्दुरवापैः सन्मतिं भक्त्या ॥ २ ॥ आषाढसुसितष्ठ्यां हस्तोत्तरमध्यमाश्रिते शशिने । भव्यजनतुष्टिजननैर्दुरवापैः सन्मतिं भक्त्या ॥ ३ ॥ सिद्धार्थनृपतितनयो भारतवास्ये विदेहकुण्डपुरे । देव्यां प्रियकारिण्यां सुस्वप्नान् संप्रदर्श्य विभुः ॥ ४ ॥ चैत्रसितपक्षफाल्गुनि शशाङ्कयोगे दिने त्रयोदश्याम् । जज्ञे स्वोच्चस्थेषु ग्रहेषु सौम्येषु शुभलग्ने ॥ ५ ॥ हस्ताश्रिते शशाङ्के चैत्रज्योत्स्ने चतुर्दशीदिवसे । पूर्वा रत्नघटैर्विबुधेन्द्राश्चक्रुरभिषेकम् ॥ ६ ॥ भुक्त्वा कुमारकाले त्रिंशद्वर्षाण्यनन्तगुणराशिः । अमरोपनीतभोगान्सहसाभिनिबोधितोऽन्येद्युः ॥ ७ ॥ नानाविधरूपचितां विचित्रकूटोच्छ्रितां मणिविभूषाम् । चन्द्रप्रभाख्याशिबिकामारुह्य पुराद्विनिःक्रान्तः ॥ ८ ॥
मार्गशिरकृष्णदशमीहस्तोत्तरमध्यमाश्रिते सोमे । षष्ठेन त्वपराण्हे भक्तेन जिनः प्रवव्राज ॥ ९ ॥ ग्रामपुरखेटर्बटमटम्बघोषाकरात्प्रविजहार । उग्रैस्तपोभिधानैर्द्वादशवर्षाण्यमरपूज्यः ॥ १० ॥
ऋजुकूलायास्तीरे शालद्रुमसंश्रिते शिलापट्टे । अपरान्हे षष्ठेनास्थितस्य खलु जृम्भिकाग्रामे ॥ ११ ॥ वैशाखसितदशम्यां हस्तोत्तरमध्यमाश्रिते चन्द्रे । क्षपकश्रेण्यारूढस्योत्पन्नं केवलज्ञानम् ॥ १२ ॥