________________
११२
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा यावन्नोदयते प्रभापरिकरः श्रीभास्करो भासयंस्तावद्धारयतीह पङ्कजवनं निद्रातिभारश्रमम् ॥ यावत्त्वच्चरणद्वयस्य भगवन्न स्यात्प्रसादोदयस्तावज्जीवनिकाय एष वहति प्रायेण पापं महत् ॥ ७ ॥ शान्ति शान्तिजिनेन्द्र शान्तमनसस्त्वत्पादपद्माश्रयात् संप्राप्ताः पृथिवीतलेषु बहवः शान्त्यर्थिनः प्राणिनः ॥ कारुण्यान्मम भक्तिकस्य च विभो दृष्टिं प्रसन्नां कुरु । त्वत्पादद्वयदैवतस्य गदतः शान्त्यष्टकं भक्तितः ॥ ८ ॥