________________
(११) सम्भवतः श्रीजटासिंहनन्दीविरचिता 'श्रीअर्हत्स्वरूपस्तुतिः'
(प्रायः ईस्वी सप्तमशताब्द्याः तृतीयचरणम्)
(विषमवृत्तम् )
अर्हन्महानदस्य त्रिभुवनभव्यजनतीर्थयात्रिकदुरितम् । प्रक्षालनैककारणमतिलौकिककुहकतीर्थमुत्तमतीर्थम् ॥ १ ॥ लोकालोकसुतत्त्वप्रत्यवबोधनसमर्थदिव्यज्ञान- । प्रत्यहवहत्प्रवाहं व्रतशीलामलविशालकूलद्वितयम् ॥ २ ॥ शुक्लध्यानस्तिमितस्थितराजद्राजहंसराजितमसकृत् । स्वाध्यायमन्द्रघोषं नानागुणसमितिगुप्तिसिकतासुभगम् ॥ ३ ॥ क्षात्यावर्तसहस्रसर्वदयाविकचकुसुमविलसल्लतिकम् । दुःसहपरीषहाख्यद्रुततररङ्गत्तरङ्गभङ्गुरनिकरम् ॥ ४ ॥ व्यपगतकषायफेनं रागद्वेषादिदोषशैवलरहितम् । अत्यस्तमोहकर्दममतिदूरनिरस्तमरणमकरप्रकरम् ॥ ५ ॥ ऋषिवृषभस्तुतिमन्द्रोद्रेकितनिर्घोषविविधविहगध्वानम् । विविधतपोनिधिपुलिनं सास्त्रवसंवरणनिर्जरानिःस्रवणम् ॥ ६ ॥ गणधरचक्रधरेन्द्रप्रभृतिमहाभव्यपुण्डरीकैः पुरुषैः । बहुभिः स्नातं भक्त्या कलिकलुषमलापकर्षणार्थममेयम् ॥ ७ ॥ अवतीर्णवतः स्नातुं ममापि दुस्तरसमस्तदुरितं दूरम् । व्यवहरतु परमपावनमनन्यजय्यस्वभाववभावगम्भीरम् ॥ ८ ॥