________________
( १० )
सम्भवतः श्रीजटासिंहनन्दीकृता 'श्रीजिनेन्द्रस्तुतिः '
(प्राय: सप्तमशताब्द्या: तृतीयचरणम्) ( पृथ्वीछन्दः)
अताम्रनयनोत्पलं सकलकोपवह्नेर्जयात् कटाक्षशरमोक्षहीनमविकारतोद्रेकतः । विषादमदहानित: प्रहसितायमानं सदा
मुखं कथयतीव ते हृदयशुद्धिमात्यन्तिकीम् ॥ १ ॥
निराभरणभासुरं विगतरागवे गोदयात्
निरंबरमनोहरं प्रकृतिरूपनिर्दोषतः । निरायुधसुनिर्भयं विगतहिंस्यहिंसाक्रमात्
निरामिषसुतृप्तिमद्विविधवेदनानां क्षयात् ॥ २ ॥
मितस्थितनखांगजं गतरजोमलस्पर्शनम्
नवांबुरुहचंदनप्रतिमदिव्यगंधोदयम् ।
रवीन्दुकुलिशादिदिव्यबहुलक्षणालंकृतम्
दिवाकरसहस्त्रभासुरमपीक्षणानां प्रियम् ॥ ३ ॥
हितार्थपरिपंथिभिः प्रबलरागमोहादिभिः
कलंकितमना जनो यदभिवीक्ष्य शोशुध्यते । सदाभिमुखमेव यज्जगति पश्यतां सर्वतः
शरद्विमलचन्द्रमण्डलमिवोत्थितं दृश्यते ॥ ४ ॥
तदेतदमरेश्वरप्रचलमौलिमालामणि
स्फुरत्किरणचुम्बनीयचरणारविन्दद्वयम् । पुनातु भगवज्जिनेन्द्र तव रूपमन्धीकृतम् जगत्सकलमन्यतीर्थगुरुरूपदोषोदयैः ॥ ५ ॥