________________
(९) सम्भवतः श्रीजटासिंहनन्दीकृता 'श्रीत्रिस्तुतिः' (प्रायः ईस्वी सप्तमशताब्द्याः तृतीयचरणम्)
(पृथ्वीछन्दः) जयति भगवान् हेमाम्भोजप्रचारविजृम्भिता
वमरमुकुटच्छायोद्गीर्णप्रभापरिचुम्बितौ । कलुषहृदया मानोभ्रान्ताः परस्परवैरिणः
विगतकलुषाः पादौ यस्य प्रपद्य विशश्वसुः ॥ १ ॥ तदनु जयति श्रेयान्धर्मः प्रवृद्धमहोदयः ।
कुगतिविपथक्लेशाद्योसौ विपाशयति प्रजाः ॥ परिणतनयस्यांगीभावाद्विविक्तविकल्पितम् ।
भवतु भवतस्त्रातृ त्रेधा जिनेन्द्रवचोऽमृतम् ॥ २ ॥ तदनु जयताज्जैनी वित्तिः प्रभङ्गतरङ्गिणी ।
प्रभवविगमध्रौव्यद्रव्यस्वभावविभाविनी ॥ निरुपमसुखस्येदं द्वारं विघट्य निरर्गलम् ।
विगतरजसं मोक्षं देयान्निरत्ययमव्ययम् ॥ ३ ॥