________________
१०१
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
सजातयो रोगजरोरुमृत्यवो
यथाक्रमं लोकमिमं जिघांसवः । समुद्धता येन चिराय निस्तुषाः
स मे विमुक्तिं विदधातु नक्रतः ॥ ७ ॥ निरस्तदुर्नीतिविशेषसाधनो
विशिष्टदिव्याष्टसहस्रलक्षणः । परीषहक्लेशविजिष्णुरद्य मां
स रक्षतु ग्राहमुखाग्जिनेश्वरः ॥ ८ ॥