________________
(८)
श्रीजटासिंहनन्दीकृतं श्रीवरांगचरितांतर्गतं 'श्रीजिनस्तुत्यष्टकम्'
(ईस्वी सप्तमशताब्द्याः मध्यभागः प्रायः)
(वंशस्थवृत्तम्)
विनष्टकर्माष्टक बुद्धिगोचरं समस्तबोध्येष्टहितार्थदर्शनम् ।
सुदृष्टिचारित्रपथाधिनायकं
नतोऽस्मि निर्वाणसुखैधितं जिनम् ॥ १ ॥
व्यपेतसर्वेषणधीरसद्व्रतं
प्रशस्तशुक्लप्रविधूतदुर्नयम् ।
अवाप्तनिर्वाणसुखं निरामयं
नतोऽस्मि तं विघ्नविनायकं जिनम् ॥ २ ॥
प्रपश्यतां दृष्टिपथानुरोधिनीं
सुरूपतां चापि सुयौवनं वपुः । सुबिभ्रतो यस्य मनो मनोभुवा
न नाशितं तं प्रणतोऽस्मि यत्नतः ॥ ३ ॥
चतुर्विधामेत्य गतिं सुदुःखिताः
स्मराग्निना ये निहताः शरीरिणः । शमाम्भसा शान्तिमिताः स यस्य वै
जिनो हि मेऽद्य प्रददातु सत्सुखम् ॥ ४ ॥
शरीरिकायस्थितिसङ्गदर्शिनं
निरञ्जनं निर्दुरितं निरामयम् ।
अमोघविद्यं निरवद्ययोगिनं
शरण्यतां यामि तमद्य शान्तये ॥ ५ ॥
त्रिलोकबन्धुस्त्रिजगत्प्रजाहित
स्त्रिलोकचूडामणिराप्तकेवलः ।
त्रिकालदर्शी सुगतिं समेयिवा
न्स मां जिनो रक्षतु दुःखसंकटात् ॥ ६ ॥