________________
श्रीजटासिंहनन्दीकृतश्रीवरांगचरितस्थस्तुतिरूपम्
'श्रीसाधारणजिनमंगलम्' (ईस्वीसन् सप्तमशताब्धाः मध्यभागः प्रायः)
__ (वसन्ततिलकावृत्तम्)
अर्हस्त्रिलोकमहितो हितकृत्प्रजानां
धर्मोऽर्हतो भगवतस्त्रिजगच्छरण्यः । ज्ञानं च यस्य सचराचरभावदर्शि
रत्नत्रयं तदहमप्रतिमं नमामि ॥ १ ॥ येनेह मोहतरुमूलमभेद्यमन्यै
रुत्पाटितं निरवशेषमनादिबद्धम् । यस्यर्द्धयस्त्रिभुवनातिशयास्त्रिधोक्ताः
सोऽर्हञ्जयत्यमितमोक्षसुखोपदेशी ॥ २ ॥ प्राप्येत येन नृसुरासुरभोगभारो
नानातपोगुणसमुन्नतलब्धयश्च पश्चादतीन्द्रियसुखं शिवमप्रमेयं
धर्मो जयत्यवितथः स जिनप्रणीतः ॥ ३ ॥ ज्ञानेन येन जिनवक्त्रविनिर्गतेन
त्रैलोक्यभूतगुणपर्ययसत्पदार्थाः । ज्ञाताः पुनर्युगपदेव हि सप्रपञ्चं
जैनं जयत्यनुपमं तदनन्तरं तत् ॥ ४ ॥ अर्हन्मुखागतमिदं गणदेवदृष्टं
सद्धर्ममार्गचरितं परया विशुद्धया । संश्रृण्वतः कथयतः स्मरतश्च नित्य
मेकान्ततो भवति पुण्यसमग्रलम्भः ॥ ५ ॥