________________
बृहद्-निर्गन्थ-स्तुतिमणिमञ्जूषा इत्यपि गुणस्तुतिः परमनिवृतेः साधनी भवत्यलमतो जनो व्यवसितश्च तत्काङ्क्षया । विरस्यति च साधुना रुचिरलोभलाभे सतां मनोऽभिलषिताप्तिरेव ननु प्रयासावधिः ॥ ४९ ॥
(मालिनी) इति मम मतिवृत्या संहतिं त्वद्गुणानामनिशममितशक्तिं संस्तुवानस्य भक्त्या । सुखमनघमनन्तं स्वात्मसंस्थं महात्मन् । जिन ! भवतु महत्या केवल श्रीविभूत्या ॥ ५० ॥