________________
९६
बृहद्
-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
कथं स्वयमुपद्रुताः परसुखोदये कारणं स्वयं रिपुभयार्दिताश्च शरणं कथं बिभ्यताम् । गतानुगतिकैरहो त्वदपरत्र भक्तैर्जनैः अनायतनसेवनं निरयहेतुरङ्गीकृतम् ॥ ३५ ॥
सदा हननघातनाद्यनुमतिप्रवृत्तात्मनां प्रदुष्टचरितोदितेषु परिहृष्यतां देहिनाम् । अवश्यमनुषज्यते दुरितबन्धनं तत्त्वतः शुभेऽपि परिनिश्चितस्त्रिविधबन्धहेतुर्भवेत् ॥ ३६ ॥
विमोक्षसुखचैत्यदानपरिपूजनाद्यात्मिकाः क्रिया बहुविधासुभृन्मरणपीडनाहेतवः । त्वया ज्वलितकेवलेन न हि देशिताः किं ता: त्वयि प्रसृतभक्तिभिः स्वयमनुष्ठिताः श्रावकैः ॥ ३७ ॥
त्वया त्वदुपदेशकारिपुरुषेण वा केनचित् कथञ्चिदुपदिश्यते स्म जिन ! चैत्यदानक्रिया । अनाशकविधिश्च केशपरिलुञ्चनं चाऽथवा श्रुतादनिधनात्मकादधिगतं प्रमाणान्तरात् ॥ ३८ ॥
न चासुपरिपीडिनं नियमतोऽशुभायेष्यते त्वया न च शुभाय वा न हि च सर्वथा सत्यवाक् । न चाऽपि दमदानयोः कुशलहेतुतैकान्ततो विचित्रनयभङ्गजालगहनं त्वदीयं मतम् ॥ ३९ ॥
त्वयाऽपि सुखजीवनार्थमिह शासनं चेत्कृतं कथं सकलसंग्रहत्यजनशासिता युज्यते । तथा निरशनार्द्ध-भुक्तिरसवर्जनाद्युक्तिभिजितेन्द्रियतया त्वमेव जिन इत्यभिख्यां गतः ॥ ४० ॥
जिनेश्वर ! न ते मतं पटकवस्त्रपात्रग्रहो विमृश्य सुखकारणं स्वयमशक्तकैः कल्पितः । अथायमपि सत्पथस्तव भवेद्यथा नग्नता
न हस्तसुलभे फले सति तरुः समारुह्यते ॥ ४१ ॥