________________
संस्कृतभाषानिबद्धानि स्तुति स्तोत्राणि
परः कृपणदेवकैः स्वयमसत्सुखैः प्रार्थ्यते सुखं युवतिसेवनादिपरसन्निधिप्रत्ययम् । त्वया तु परमात्मना न परतो यतस्ते सुखं व्यपेतपरिणामकं निरुपमं ध्रुवं स्वात्मजम् ॥ २८ ॥
पिशाचपरिवारितः पितृवने नरीनृत्यते क्षरद्रुधिरभीषणद्विरदकृत्तिहेलापट: । हरो हसति चायतं कहकहाट्टहासोल्बणं कथं परमदेवतेति परिपूज्यते पण्डितैः ॥ २९ ॥
मुखेन किल दक्षिणेन पृथुनाऽखिलप्राणिनां समत्ति शवपूतिमज्जरुधिरान्त्रमांसानि च । गणैः स्वसदृशैर्भृशं रतिमुपैति रात्रिन्दिवं पिबत्यपि च यः सुरां स कथमाप्तताभाजनम् ॥ ३० ॥
अनादिनिधनात्मकं सकलतत्त्वसंबोधनं
समस्तजगदाधिपत्यमथ तस्य संतृप्तता । तथा विगतदोषता च किल विद्यते यन्मृषा सुयुक्तिविरहान्न चाऽस्ति परिशुद्धतत्त्वागमः ॥ ३१ ॥
कमण्डलुमृगाजिनाक्षवलयादिभिर्ब्रह्मणः शुचित्वविरहादिदोषकलुषत्वमभ्यू । भयं विघृणता च विष्णुहरयोः सशस्त्रत्वतः स्वतो न रमणीयता च परिमूढता भूषणात् ॥ ३२ ॥
स्वयं सृजति चेत्प्रजाः किमिति दैत्यविध्वंसनं सुदुष्टजननिग्रहार्थमिति चेदसृष्टिर्वरम् । कृतात्मकरणीयकस्य जगतां कृतिर्निष्फला स्वभाव इति चेन्मृषा स हि सुदुष्ट एवाऽऽप्यते ॥ ३३ ॥
प्रसन्नकुपितात्मनां नियमतो भवेदुःखिता तथैव परिमोहिता भयमुपद्रुतिश्चामयैः । तृषाऽपि च बुभुक्षया च न च संसृतिश्छिद्यते जिनेन्द्र ! भवतोऽपरेषु कथमाप्तता युज्यते ॥ ३४ ॥
९५