SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ९४ बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा परैरपरिणामकः पुरुष इष्यते सर्वथा प्रमाणविषयादितत्त्वपरिलोपनं स्यात्ततः । कषायविरहान्न चाऽस्य विनिबन्धनं कर्मभिः कुतश्च परिनिर्वृतिः क्षणिकरूपतायां तथा ॥ २१ ॥ मनो विपरिणामकं यदिह संसृतिं चाश्नुते तदेव च विमुच्यते पुरुषकल्पना स्याद् वृथा । न चाऽस्य मनसो विकार उपपद्यते सर्वथा ध्रुवं तदिति हीष्यते द्वितयवादिता कोपिनि ॥ २२ ॥ पृथग्जनमनोनुकूलमपरैः कृतं शासनं सुखेन सुखमाप्यते न तपसेत्यवश्येन्द्रियैः । प्रतिक्षणविभङ्गुरं सकलसंस्कृतं चेष्यते ननु स्वमतलोकलिङ्गपरिनिश्चितैर्व्याहितम् ॥ २३ ॥ न सन्ततिरनश्वरी न हि च नश्वरी नो द्विधा वनादिवदभाव एव यत इष्यते तत्त्वतः । वृथैव कृषिदानशीलमुनिवन्दनादिक्रियाः कथञ्चिदविनश्वरी यदि भवेत्प्रतिज्ञाक्षतिः ॥ २४ ॥ अनन्यपुरुषोत्तमो मनुजतामतीतोऽपि समनुष्य इति शस्यसे त्वमधुना नरैर्बालिशैः । क्व ते मनुजगर्भिता क्व च विरागसर्वज्ञता न जन्ममरणात्मता हि तव विद्यते तत्त्वतः ॥ २५ ॥ स्वमातुरिह यद्यपि प्रभव इष्यते गर्भतो मलैरनुपसंप्लुतो वरसरोजपत्राऽम्बुवत् । हिताहितविवेकशून्यहृदयो न गर्भेऽप्यभूः कथं तव मनुष्यमात्रसदृशत्वमाशङ्क्यते ॥ २६ ॥ न मृत्युरपि विद्यते प्रकृतिमानुषस्येव ते मृतस्य परिनिर्वृतिर्न मरणं पुनर्जन्मवत् । जरा च न हि यद्वपुर्विमलकेवलोत्पत्तितः प्रभृत्यरुजमेकरूपमवतिष्ठते प्राङ्मृतेः ॥ २७ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy