________________
८२
बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
स्वयोगनिस्त्रिंशनिशातधारया निशात्य यो दुर्जयमोहविद्विषम् । अवापदाऽऽर्हन्त्यमचित्यमद्भुतं त्रिलोकपूजाऽतिशयाऽऽस्पदं पदम् ॥ १३३ ॥
यमीश्वरं वीक्ष्य विधूतकल्मषं तपोधनास्तेऽपि तथा बुभूषवः । वनौकसः स्वश्रमवन्ध्यबुद्धयः शमोपदेशं शरणं प्रपेदिरे ॥ १३४ ॥
स सत्य - विद्यातपसां प्रणायकः समग्रधीरुग्रकुलाऽम्बरांशुमान् । मया सदा पार्श्वजिनः प्रणम्यते विलीनमिथ्यापथदृष्टिविभ्रमः ॥ १३५ ॥
( आर्यागीति )
कीर्त्या भुवि भासि तया
वीर ! त्वं गुण समुत्थया भासितया । भासोडुसभाऽसितया
सोम इव व्योम्नि कुन्दशोभाऽऽसितया ॥ १३६ ॥
तव जिन ! शासनविभवो
जयति कलावपि गुणाऽनुशासनविभवः । दोषकशाऽसनविभवः स्तुवन्ति
चैनं प्रभाकृशाऽऽसनविभवः ॥ १३७ ॥ अनवद्यः स्याद्वादस्तव दृष्टेष्टाऽविरोधतः स्याद्वादः । इतरो न स्याद्वादो सद्वितयविरोधान्मुनीश्वराऽस्याद्वादः ॥ १३८ ॥ त्वमसि सुरासुरमहितो ग्रन्थिकसत्त्वाऽऽशयप्रणामाऽमहितः । लोकत्रयपरमहितोऽनावरणज्योतिरुज्जवलद्धाम हितः ॥ १३९ ॥
सभ्यानामभिरुचितं दधासि गुणभूषणं श्रिया चारुचितम् । मग्नं स्वस्यां रुचितं जयसि च मृगलाञ्छनं स्वकान्त्या रुचितम् ॥ १४० ॥
त्वं जिन ! गतमदमायस्तव भावानां मुमुक्षु कामद ! मायः । श्रेयान् श्रीमदमायस्त्वया समादेशि सप्रयामदमाऽयः ॥ १४१ ॥