________________
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
45
गिरिभित्त्यवदानवतः श्रीमत इव दन्तिनः स्रवद्दानवतः । तव शम वादानवतो गतमूर्जितमपगतप्रमादानवतः ॥ १४२ ॥ बहुगुणसम्पदसकलं परमतमपि मधुरवचनविन्यासकलम् । नयभक्त्यवतंसकलं तव देव ! मतं समन्तभद्रं सकलम् ॥ १४३ ॥