________________
संस्कृतभाषानिबद्धानि स्तुति स्तोत्राणि
हलभृच्च ते स्वजनभक्तिमुदितहृदयौ जनेश्वरौ । धर्मविनयरसिकौ सुतरां
चरणारविन्दयुगलं प्रणेमतुः ॥ १२६ ॥
ककुदं भुवः खचरयोषिदुषितशिखरैरलङ्कृतः ।
मेघपटलपरिवीततट
स्तव लक्षणानि लिखितानि वज्रिणा ॥ १२७ ॥
वहतीति तीर्थमृषिभिश्च
सततमभिगम्यतेऽद्य च ।
प्रीतिविततहृदयैः परितो
भृशमूर्जयन्त इति विश्रुतोऽचलः ॥ १२८ ॥
बहिरन्तरप्युभयथा च करणमविघाति नाऽर्थकृत् ।
नाथ ! युगपदखिलं च सदा
त्वमिदं तलाऽऽमलकवद्विवेदिथ ॥ १२९ ॥
अत एव ते बुधनुतस्य
चरितगुणमद्भुतोदयम् । न्यायविहितमवधार्य जिने
त्वयि सुप्रसन्न मनसः स्थिता वयम् ॥ १३० ॥
( वंशस्थ )
तमालनीलैः सधनुस्तडिद्गुणैः प्रकीर्णभीमाऽशनि-वायु- वृष्टिभिः ।
बलाहकैर्वैरिवशैरुपद्रुतो
महामना यो न चचाल योगतः ॥ १३१ ॥
बृहत्फणामण्डलमण्डपेन
यं स्फुरत्तडित्पिङ्गरुचोपसर्गिणम् । जुगूह नागो धरण धराधरं विरागसंध्यातडिदम्बुदो यथा ॥ १३२ ॥
८१