________________
बृहद्-निर्गन्थ-स्तुतिमणिमञ्जूषा अहिंसा भूतानां जगति विदितं ब्रह्म परमं न सा तत्राऽऽरम्भोऽस्त्यणुरपि च यत्राऽऽश्रमविधौ । ततस्तत्सिद्धयर्थं परमकरुणो ग्रन्थमुभयं भवानेवाऽत्याक्षीन्न च विकृतवेषोपधिरतः ॥ ११९ ॥ वपुर्भूषावेषव्यवधिरहितं शान्तकरणं यतस्ते संचष्टे स्मरशरविषाऽऽतङ्कविजयम् । विना भीमैः शस्त्रैरदयहृदयाऽमर्षविलयं ततस्त्वं निर्मोहः शरणमसि नः शान्तिनिलयः ॥ १२० ॥
(उद्गता) भगवानृषिः परम योगदहन तकल्मषेन्धनः । ज्ञानविपुलकिरणैः सकलं प्रतिबुध्य बुद्धकमलायतेक्षणः ॥ १२१ ॥ हरिवंशकेतुरनवद्यविनयदमतीर्थनायकः । शीलजलधिरभवो विभवस्त्वमरिष्टनेमि-जिनकुञ्जरोऽजरः ॥ १२२ ॥ त्रिदशेन्द्रमौलिमणिरत्नकिरणविसरोपचुम्बितम् । पादयुगलममलं भवतो विकसत्कुशेशयदलाऽरुणोदरम् ॥ १२३ ॥ नखचन्द्ररश्मिकवचाऽतिरुचिरशिखराऽङ्गुलिस्थलम् । स्वार्थनियतमनसः सुधियः प्रणमन्ति मन्त्रमुखरा महर्षयः ॥ १२४ ॥ द्युतिमद्रथाङ्गरविबिम्बकिरणजटिलांशुमण्डलः । नीलजलदजलराशिवपुः सह बन्धुभिर्गरुडकेतुरीश्वरः ॥ १२५ ॥