________________
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
७९
परिणतशिखिकण्ठरागया कृतमदनिग्रहविग्रहाऽऽभया । तव जिन ! तपसः प्रसूतया ग्रहपरिवेषरुचेव शोभितम् ॥ ११२ ॥ शशिरुचिशुचि शुक्ललोहितं सुरभितरं विरजो निजं वपुः । तव शिवमतिविस्मयं यते ! यदपि च वाङ्मनसीयमीहितम् ॥ ११३ ॥ स्थिति-जनन-निरोधलक्षणं चरमचरं च जगत् प्रतिक्षणम् । इति जिन ! सकलज्ञलाञ्छनं वचनमिदं वदतांवरस्य ते ॥ ११४ ॥ दुरितमलकलङ्कमष्टकं निरुपमयोगबलेन निर्दहन् । अभवदभव सौख्यवान् भवान् भवतु ममापि भवोपशान्तये ॥ ११५ ॥
(शिखरिणी) स्तुतिस्तोतुः साधोः कुशलपरिणामाय स तदा भवेन्मा वा स्तुत्यः फलमपि ततस्तस्य च सतः । किमेवं स्वाधीन्याज्जगति सुलभे श्रेयसपथे स्तुयान्न त्वां विद्वान्सततमर्भिपूज्यं नमिजिनम् ॥ ११६ ॥ त्वया धीमन् ! ब्रह्मप्रणिधिमनसा जन्मनिगलं समूलं निर्भिन्नं त्वमसि विदुषां मोक्षपदवी । त्वयि ज्ञानज्योतिर्विभवकिरणैर्भाति भगवनभूवन् खद्योता इव शुचिरवावन्यमतयः ॥ ११७ ॥ विधेयं वार्यं चाऽनुभयमुभयं मिश्रमपि तद् विशेषैः प्रत्येकं नियमविषयैश्चापरिमितैः । सदाऽन्योन्यापेक्षैः सकलभुवनज्येष्ठगुरुणा त्वया गीतं तत्त्वं बहुनयविवक्षेतरवशात् ॥ ११८ ॥