________________
७८
बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
मतिगुणविभावनुरूपतस्त्वयि वरदाऽऽगमदृष्टिरूपतः । गुणकृशमपि किञ्चनोदितं
मम भवताद् दुरितासनोदितम् ॥ १०५ ॥
(वनवासिका)
यस्य महर्षेः सकलपदार्थ
प्रत्यवबोधः समजनि साक्षात् ।
साऽमरमर्त्यं जगदपि सर्वं
प्राञ्जलि भूत्वा प्रणिपतति स्म ॥ १०६ ॥
यस्य च मूर्तिः कनकमयीव स्वस्फुरदाभा कृतपरिवेषा । वागपि तत्त्वं कथयितुकामा स्यात्पदपूर्वा रमयति साधून् ॥ १०७ ॥
यस्य पुरस्ताद्विगलितमाना
न प्रतितीर्थ्या भुवि विवदन्ते । भूरपि रम्या प्रतिपदमासीज्जातविकोशाम्बुजमृदुहासा ॥ १०८ ॥
यस्य समन्ताज्जिनशिशिरांशोः शिष्यकसाधुग्रहविभवोऽभूत् । तीर्थमपि स्वं जननसमुद्रत्रासितसत्वोत्तरणपथोऽग्रम् ॥ १०९ ॥
यस्य च शुक्लं परमतपोऽग्निर्ध्यानमनन्तं दुरितमधाक्षीत् । तं जिनसिंहं कृतकरणीयं
मल्लिमशल्यं शरणमितोऽस्मि ॥ ११० ॥
(वैतालीय )
अधिगतमुनिसुव्रतस्थितिमुनिवृषभो मुनिसुव्रतोऽनघः । मुनिपरिषदि निर्बभौ भवानुडुपरिषत्परिवीतसोमवत् ॥ १११ ॥