________________
७६
-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
बृहद्
तृष्णाऽर्चिषः परिदहन्ति न शान्तिरासामिष्टेन्द्रियार्थविभवैः परिवृद्धिरेव । स्थित्यैव कायपरितापहरं निमित्तमित्यात्मवान् विषयसौख्यपराङ्मुखोऽभूत् ॥ ८२ ॥
बाह्यं तपः परम-दुश्चरमाऽऽचरस्त्वमाऽऽध्यात्मिकस्य तपसः परिबृंहणार्थम् । ध्यानं निरस्य कलुषद्वयमुत्तरस्मिन् ध्यानद्वये ववृतिषेऽतिशयोपपन्ने ॥ ८३ ॥
हुत्वा स्वकर्मकटुकप्रकृतीश्चतस्त्रो रत्नत्रयाऽतिशयतेजसि जातवीर्यः । भ्राजिषे सकलवेदविधेर्विनेता व्यभ्रे यथा वियति दीप्तरुचिर्विवस्वान् ॥ ८४ ॥
यस्मान्मुनीन्द्र ! तव लोक - पितामहाद्या विद्याविभूतिकणिकामपि नाप्नुवन्ति । तस्माद्भवन्तमजमप्रतिमेयमाऽऽर्याः
स्तुत्यं स्तुवन्ति सुधियः स्वहितैकतानाः ॥ ८५ ॥ (अनुष्टुभ् )
गुण- स्तोकं सदुल्लङ्घ्य तद्बहुत्वकथास्तुतिः । आनन्त्यात्ते गुणा वक्तुमशक्यास्त्वयि सा कथम् ॥ ८६ ॥ तथाऽपि ते मुनीन्द्रस्य यतो नामाऽपि कीर्तितम् । पुनाति पुण्यकीर्तेर्नस्ततो ब्रूयाम किञ्चन ॥ ८७ ॥
लक्ष्मीविभवसर्वस्वं मुमुक्षोश्चक्रलाञ्छनम् । साम्राज्यं सार्वभौमं ते जरत्तृणमिवाऽभवत् ॥ ८८ ॥
तव रूपस्य सौन्दर्यं दृष्ट्वा तृप्तिमनापिवान् । द्व्यक्षः शक्रः सहस्राक्षो बभूव बहु विस्मयः ॥ ८९ ॥ मोहरूपो रिपुः पापः कषायभटसाधनः दृष्टिसंविदुपेक्षाऽस्त्रैस्त्वया धीर ! पराजितः ॥ ९० ॥
कन्दर्पस्योद्धरो दर्पस्त्रैलोक्यविजयार्जितः । पयामास तं धीरे त्वयि प्रतिहतोदयः ॥ ९१ ॥