________________
७४
परिश्रमाऽम्बुर्भयवीचिमालिनी त्वया स्वतृष्णासरिदाऽऽर्य ! शोषिता । असङ्गघर्मार्कगभस्तितेजसा
परं ततो निर्वृतिधाम तावकम् ॥ ६८ ॥
सुहृत्त्वयि श्रीसुभगत्वमश्नुते द्विषंस्त्वयि प्रत्ययवत् प्रलीयते ।
बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
भवानुदासीनतमस्तयोरपि
प्रभो ! परं चित्रमिदं तवेहितम् ॥ ६९ ॥
त्वमीदृशस्तादृश इत्ययं मम प्रलापलेशोऽल्पमतेर्महामुने । अशेषमाहात्म्यमनीरयन्नपि
शिवाय संस्पर्श इवाऽमृताम्बुधेः ॥ ७० ॥
( रथोद्धता )
धर्म - तीर्थमनघं प्रवर्तयन्
धर्म इत्यनुमतः सतां भवान् । कर्मकक्षमदहत्तपोऽग्निभिः
शर्म शाश्वतमवाप शङ्करः ॥ ७१ ॥
देवमानवनिकायसत्तमै रेजिषे परिवृतो वृतो बुधैः । तारकापरिवृतोऽतिपुष्कलो
व्योमनीव शशलाञ्छनोऽमलः ॥ ७२ ॥
प्रातिहार्य विभवैः परिष्कृतो देहतोऽपि विरतो भवानभूत् । मोक्षमार्गमशिषन्नरामरान्
नाऽपि शासनफलैषणाऽऽतुरः ॥ ७३ ॥
कायवाक्यमनसां प्रवृत्तयो नाऽभवंस्तव मुनेश्चिकीर्षया । नाऽसमीक्ष्य भवतः प्रवृत्तयो धीर ! तावकमचिन्त्यमीहितम् ॥ ७४ ॥