________________
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
७३
(वंशस्थ) य एव नित्यक्षणिकादयो नया मिथोऽनपेक्षाः स्व-परप्रणाशिनः । त एव तत्त्वं विमलस्य ते मुनेः परस्परेक्षाः स्वपरोपकारिणः ॥ ६१ ॥ यथैकशः कारकमर्थसिद्धये समीक्ष्य शेषं स्वसहायकारकम् । तथैव सामान्यविशेषमातृका नयास्तवेष्टा गुणमुख्यकल्पतः ॥ ६२ ॥ परस्परेक्षाऽन्वयभेदलिङ्गतः प्रसिद्धसामान्य-विशेषयोस्तव । समग्रताऽस्ति स्व-पराऽवभासकं यथा प्रमाणं भुवि बुद्धिलक्षणम् ॥ ६३ ॥ विशेष्यवाच्यस्य विशेषणं वचो यतो विशेष्यं विनियम्यते च यत् । तयोश्च सामान्यमतिप्रसज्यते विवक्षितात्स्यादिति तेऽन्यवर्जनम् ॥ ६४ ॥ नयास्तव स्यात्पदसत्यलाञ्छिता रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ ६५ ॥
(वंशस्थ) अनन्तदोषाऽऽशयविग्रहो ग्रहो विषङ्गवान्मोहमयश्चिरं हृदि । यतो जितस्तत्त्वरुचौ प्रसीदता त्वया ततोऽभूर्भगवाननन्तजित् ॥ ६६ ॥ कषायनाम्नां द्विषतां प्रमाथिनामशेषयन्नाम भवानशेषवित् । विशोषणं मन्मथदुर्मदाऽऽमयं समाधिभैषज्यगुणैर्व्यलीनयत् ॥ ६७ ॥