SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि अद्याऽपि यस्याऽजितशासनस्य सतां प्रणेतुः प्रतिमङ्गलार्थम् । प्रगृह्यते नाम परमंपवित्रं स्वसिद्धिकामेन जनेन लोके ॥ ७ ॥ यः प्रादुरासीत्प्रभुशक्तिभूम्ना भव्याऽऽशयालीनकलङ्कशान्त्यै । महामुनिर्मुक्तघनोपदेहो यथाऽरविन्दाऽभ्युदयाय भास्वान् ॥ ८ ॥ येन प्रणीतं पृथु धर्म-तीर्थं ज्येष्ठं जनाः प्राप्य जयन्ति दुःखम् । गाङ्गं हृदं चन्दनपङ्कशीतं गजप्रवेका इव धर्मतप्ताः ॥ ९ ॥ स ब्रह्मनिष्ठः सममित्रशत्रुविद्याविनिर्वान्तकषायदोषः । लब्धात्मलक्ष्मीरजितोऽजितात्मा जिनः श्रियं मे भगवान् विधत्ताम् ॥ १० ॥ (इन्द्रवज्रा) त्वं शम्भवः सम्भवतर्षरोगैः सन्तप्यमानस्य जनस्य लोके । आसीरिहाऽऽकस्मिक एव वैद्यो वैद्यो यथाऽनाथरुजां प्रशान्त्यै ॥ ११ ॥ (उपेन्द्रवज्रा) अनित्यमत्राणमहंक्रियाभिः प्रसक्तमिथ्याऽध्यवसायदोषम् । इदं जगज्जन्मजराऽन्तकार्तं निरञ्जनां शान्तिमजीगमस्त्वम् ॥ १२ ॥ (उपजाति) शतहूदोन्मेषचलं हि सौख्यं तृष्णाऽऽमयाऽप्यायनमात्रहेतुः । तृष्णाभिवृद्धिश्च तपत्यजत्रं तापस्तदायासयतीत्यवादीः ॥ १३ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy