________________
६६
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
(इन्द्रवज्रा) बन्धश्च मोक्षश्च तयोश्च हेतू बद्धश्च मुक्तश्च फलं च मुक्तेः । स्याद्वादिनो नाथ ! तवैव युक्तं नैकान्तदृष्टेस्त्वमतोऽसि शास्ता ॥ १४ ॥
___ (उपजाति) शक्रोऽप्यशक्तस्तव पुण्यकीर्तेः स्तुत्यां प्रवृत्तः किमु मादृशोऽज्ञः । तथाऽपि भक्त्या स्तुत-पाद-पद्मो ममार्य ! देयाः शिवतातिमुच्चैः ॥ १५ ॥
(वंशस्थ) गुणाऽभिनन्दादभिनन्दनो भवान् दयावधूं क्षान्तिसखीमशिश्रियत् । समाधितन्त्रस्तदुपोपपत्तये द्वयेन नैर्ग्रन्थ्यगुणेन चाऽयुजत् ॥ १६ ॥ अचेतने तत्कृतबन्धजेऽपि ममेदमित्याभिनिवेशिकग्रहात् । प्रभङ्गरे स्थावरनिश्चयेन च क्षतं जगत्तत्त्वमजिग्रहद्भवान् ॥ १७ ॥ क्षुदादिदुःखप्रतिकारतः स्थितिन चेन्द्रियार्थप्रभवाऽल्पसौख्यतः । ततो गुणो नास्ति च देहदेहिनोरितीदमित्थं भगवान् व्यजिज्ञपत् ॥ १८ ॥ जनोऽतिलोलोऽप्यनुबन्धदोषतो भयादकार्येष्विह न प्रवर्तते । इहाऽप्यमुत्राऽप्यनुबन्धदोषवित् कथं सुखे संसजतीति चाऽब्रवीत् ॥ १९ ॥ स चानुबन्धोऽस्य जनस्य तापकृत् तृषोऽभिवृद्धिः सुखतो न च स्थितिः ।