________________
(४) स्वामिसमन्तभद्रप्रणीतम् श्रीबृहत्स्वयम्भूस्तोत्रम्
(प्रायः ईस्वी ६००)
(वंशस्थ)
स्वयम्भुवा भूतहितेन भूतले समञ्जसज्ञानविभूतिचक्षुषा । विराजितं येन विधुन्वता तमः क्षपाकरेणेव गुणोत्करैः करैः ॥ १ ॥ प्रजापतिर्यः प्रथमं जिजीविषूः शशास कृष्यादिषु कर्मसु प्रजाः । प्रबुद्धतत्त्वः पुनरद्भुतोदयो ममत्वतो निर्विविदे विदांवरः ॥ २ ॥ विहाय यः सागरवारिवाससं वधूमिवेमां वसुधाव● सतीम् । मुमुक्षुरिक्ष्वाकुकुलादिरात्मवान् प्रभुः प्रववाज सहिष्णुरच्युतः ॥ ३ ॥ स्वदोषमूलं स्वसमाधितेजसा निनाय यो निर्दयभस्मसात्क्रियाम् । जगाद तत्त्वं जगतेऽथिनेऽञ्जसा बभूव च ब्रह्म-पदाऽमृतेश्वरः ॥ ४ ॥ स विश्वचक्षुर्वृषभोऽर्चितः सतां समग्रविद्याऽऽत्मवपुर्निरञ्जनः । पुनातु चेतो मम नाभिनन्दनो जिनोऽजितक्षुल्लकवादिशासनः ॥ ५ ॥
(उपजाति) यस्य प्रभावात् त्रिदिवच्युतस्य क्रीडास्वपि क्षीवमुखारविन्दः । अजेयशक्तिर्भुवि बन्धुवर्गश्चकारनामाऽजित इत्यवन्ध्यम् ॥ ६ ॥