________________
५६
संकीर्णदैत्यामरपौरवर्गमत्यद्भुतं तन्महिमानमीक्ष्य |
भवाभवाभ्युत्थितचेतसस्ते
यद्विस्मयो नाम स विस्मयोऽयम् ॥ १४ ॥
प्रतीच्छतस्ते सुरपस्य केशान् क्षीरार्णवोपायनलब्धबुद्धेः ।
प्रसादसायामतरं तदाभू
दक्ष्णां यथार्थानिमिषं सहस्त्रम् ॥ १५ ॥
( इन्द्रवज्रा
अज्ञातचर्यामनुवर्तमानो
यद् दुर्जनाधृष्यवपुस्त्वमासीः । नानासनोच्चावचलक्षणाङ्क
मूर्तेस्तदत्यद्भुतमीहितं मे ॥ १६ ॥
शिवाशिवव्याहृतनिष्ठुरायां
रक्षः पिशाचोपवनान्तभूमौ ।
समाधिगुप्तः समजागरूकः
कायं समुत्सृज्य विनायकेभ्यः ॥ १७ ॥
वन्ध्याभिमानं कृतवानसि ही
संसर्गपात्रं जिन ! संगमं यत् ।
प्रीतत्रिनेत्रार्चित ! नृत्तपुष्पै
स्तेनासि लोकत्रयवीर ! वीरः ॥ १८ ॥
आनन्दनृत्तप्रचलाचला भूः
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
प्रत्युद्धतोद्वेलजलः समुद्रः ।
सौम्योऽनिलः स्पर्शसुखेऽभिजातः
शुभाभिधाना मृगपक्षिणश्च ॥ १९ ॥
सर्वावतारः सुरदैत्यनाग
गरुत्मतां प्रोषितमत्सराणाम् ।
बभूवुरन्यानि च तेऽद्भुतानि
त्रैलोक्यविघ्नेश्वरमोहशान्तौ ॥ २० ॥