________________
५०
बृहद् - निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
स्थाने जनस्य परवादिषु नाथबुद्धि
द्वेषश्चयस्त्वयि गुणप्रणतो हि लोकः । ते पालयन्ति समुपाश्रितजीवितानि
त्वामाश्रितस्य हि कुतश्चिरमेष भावः ? ॥ ७ ॥
चित्रं किमत्र यदि निर्वचनं विवादा
न प्राप्नुवन्ति ननु शास्तरि युक्तमेतत् । उक्तं च नाम भवता बहु नैकमार्ग
निर्विग्रहं च किमतः परमद्भुतं स्यात् ॥ ८ ॥
मां प्रत्यसौ न मनुजप्रकृतिर्जिनोऽभू
च्छङ्के च नातिगुणदोषविनिश्चयज्ञः । यत् त्वां जिन ! त्रिभुवनातिशयं समीक्ष्य
नोन्मादमाप न भवज्वरमुन्ममाथ ॥ ९ ॥ अन्येऽपि मोहविजयाय निपीड्य कक्षा
मभ्युत्थितास्त्वयि विरूढसमानमानाः । अप्राप्य ते तव गतिं कृपणावसाना
स्त्वामेव वीर ! शरणं ययुरुद्वहन्तः ॥ १० ॥
तावद् वितर्करचनापटुभिर्वचोभि
र्मेधाविनः कृतमिति स्मयमुद्वहन्ति । यावन्न ते जिन ! वचः स्वभिचापलास्ते
सिंहासने हरिणबालकवत् स्खलन्ति ॥ ११ ॥
त्वद्भाषितान्यविनयस्मितकुञ्चिताक्षाः
स्वग्राहरक्तमनसः परिभूय बालाः । नैवोद्भवन्ति तमसः स्मरणीयसौख्याः
पाताललीनशिखरा इव लोध्रवृक्षाः ॥ १२ ॥
सद्धर्मबीजवपनानघकौशलस्य
यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु
सूर्यांशवो मधुकरीचरणावदाताः ॥ १३ ॥