SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि त्वच्छासनाधिगममूढदिशां नराणा माशास्महे पुरुषमप्यनुपत्तमेव । उन्मार्गयायिषु हि शीघ्रगतिर्य एव नश्यत्यसौ लघुतरं न मृदु प्रयातः ॥ १४ ॥ तिष्ठन्तु तावदतिसूक्ष्मगभीरगाधाः ___ संसारसंस्थितिभिदः श्रुतवाक्यमुद्राः । पर्याप्तमेकमुपपत्तिसचेतनस्य रागार्चिषः शमयितुं तव रूपमेव ॥ १५ ॥ वैराग्यकाहलमुखा विषयस्पृहान्धा ज्ञातुं स्वमप्यनधिया हृदयप्रचारम् । नातः परं भव इति व्यसनोपकण्ठा विश्वासयन्त्युपनतांस्त्वयि मूढसंज्ञाः ॥ १६ ॥ सत्त्वोपघातनिरनुग्रहराक्षसानि वक्तृप्रमाणरचितान्यहितानि पीत्वा । अद्वारकं जिन ! तमस्तमसो विशन्ति येषां न भान्ति तव वाग्द्युतयो मनस्सु ॥ १७ ॥ दग्धेन्धनः पुनरुपैति भवं प्रमथ्य निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्च परार्थशूरः । त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ १८ ॥ पापं न वाञ्छति जनो न वेत्ति पापं पुण्योन्मुखश्च न च पुण्यपथः प्रतीतः । निःसंशयं स्फुटहिताहितनिर्णयस्तु त्वं पापवत् सुगत ! पुण्यमपि व्यधाक्षी ॥ १९ ॥ सत्कार-लाभपरिपक्तिशठैर्वचोभि दुःखद्विषं जनमनुप्रविशन्ति तीर्थ्याः । लोकप्रपञ्चविपरीतमधीरदुर्गं श्रेयःपथं त्वमविदूरसुखं चकर्ष ॥ २० ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy