________________
८६
बाकण्डेयस्मृतिः
तवा यानि वचः पश्चात् यच्छिद्धीति पुनः परः । यत्कि चे अनुभूयः कितवासः ततः परः ॥ पचामं ता ( ? ) मध्यगताः पातकशत्रवः । विनियुक्ता विशेष: प्रवाच्याः स्युस्ततोऽखिलैः ॥ तस्मिन् कर्मणि सायाह दिगादीनां ततः पुनः ॥ दिनमस्कारः
तत्रत्यानामशेषाणां नमस्कार क्रियापरः । नमोऽनुवाकः सुमहान् वक्तव्यः कर्मसिद्धये ॥ दिलिङ्गास्तत्र संख्याताः नमो गंगादिकैस्त्रिभिः । यजूंषि दशसंख्याकानि स्युः सर्वेऽत्र पावकाः ॥
तदेवमखिलं प्रोक्त ं साध्यं कर्मत्रयं महत् । एवं कृतोपनयनो द्विजमात्रोऽन्वहं तराम् ॥ कुर्यात्तु सन्ध्यां नियतो न चेद्विप्रो भवेदयम् । सन्ध्यामूलमिदं सर्वं ब्राह्मण्यं सर्वदेहिनाम् ||
1
वन्दनीयं प्रार्थनीयं पूजनीयं प्रयत्नतः । सेव्यं च दर्शनीयं च सन्ध्ययैतत्तु संपदः ॥ ब्राह्मणस्य महत्त्वं तद्दीयतीति (?) न कैरपि सुरेन्द्रः सर्ववेदैत्वा (र्वा) ब्रह्मविष्णुशिवादिभिः ।। सुरोत्तमैर्महद्भिर्वा परिच्छेत्तुं हि शक्यते । ब्राह्मण्यं खलु देवाना मप्यत्यन्तं हि दुर्लभम् ॥ ब्राह्मणे सर्ववेदाश्च ब्राह्मणे सर्वदेवताः । ब्राह्मणे सर्वतीर्थानि तत्पादे दक्षिणे शिवे ॥
सर्वे समुद्राः सरितः सदा कूपाः सरांसि च । पुष्करिण्यः पुष्कराद्याः सर्वे यागास्तपांसि च ॥ विविधान्यपि कृच्छ्राणि व्रतानि विविधान्यपि । गावो दुमाश्च नियमाः दीक्षा यागाः सदक्षिणाः ॥ शास्त्राणि च पुराणानि स्मृतयो विविधाः पराः । आदित्या वसवो रुद्राः लोकपाला महौजसः ॥