________________
मध्यान्हकालकर्मवर्णनम् दधिक्राव्णेति परमं यथारुचितु चोदितम् । तथा हिरण्यवर्णाश्च चत्वारो मनवोऽपि वै।। यथारुचि परं तेषां षण्णामपि हि पादने । पठने चापि नियमः तेषु कर्मसु वच्मि वः॥ याजुषाणां ऋक्प्रकारकरणं त्वत्र निन्दितम् । बङ्घचानां तथा चोभयं बाधकाय न ।
तथा किमर्थमित्युक्त सान्ध्यं कर्माखिलं महत् । . यजुर्वेदान्तर्गतं स्यान्न तदन्यत्र कुत्रचित् ॥ तस्मादशेषविप्राणां यजुर्मन्त्रविधानतः। सान्ध्यस्य करणे प्रोक्तं कर्मणो नेति बाधकम् ।। यदि शुद्धयजूंध्यत्र सान्ध्ये कर्मणि मोहतः। शाखान्तरप्रकारेण तानि प्रोवरितानि चेत्॥
भवेत्तु कर्मवैकल्यं विशयो नात्र वच्मि वः। त एते खलु षण्मन्त्राः ऋचः स्युश्च यजूंयपि ॥ वेदद्वयेऽपि चोक्तत्वात्स्वरभेदादिना तथा । महामन्त्रस्य तस्यास्या गाड्याख्यस्य चेत्पुनः॥ तत्तच्छाखोक्तरीत्यैव जपादिक उदाहृतः॥
माध्याह्निकार्यम् माध्याहिकक्रियायां तु गायत्रीं सकृदेव हि । अर्ध्यमेकं समुच्यार्य देयं स्यात्तदनन्तरम् ॥ सौर्यास्त्रेग द्वितोयं तं हंसशुचिषदित्यचा । तत्तच्छाखोक्तरीत्यैव तं मन्त्रं समुदीरयेत् ।। तश्चक्षुरिति सर्वेषां समुच्चारणकर्मणि । यजुर्वेदविधानेन प्रोक्तिस्साभिहिता परा॥ पश्चाद्य उदमन्त्रोऽति यजुरेव हि केवलम् । तदुपस्थानकृत्येऽस्मि(न) बहू चानां विशेषतः
बचानां मन्त्रोच्चारणप्रकारः उदुत्यवर्गों वक्तव्यः नित्योऽयं नान्यथा मतः । याजुषाणामत्र परं आसत्येनेत्यगात्मकः मनुः स्याद्याजुषः पश्चादुद्वयं तमसस्परि। उदुत्यं च ततो भूयो मनुस्तदनुतादृशः॥
चित्रं देवानामित्येकश्चत्वारः खलु तेऽखिलाः । सोऽयं चेत्तदुपस्थाने इमं मे वरुणो मनुः॥