SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयस्मृतिः अत्र यः सप्तमो वर्णः स तु वर्णद्वयात्मकः। णकारश्च यकारश्च द्वावित्येव मनीषिभिः॥ ज्ञात्वा तु वैदिकैः सर्वै जप्यो वेदे यथैव सा । गायत्री सर्ववेदानां जननी ब्रह्मनामिका। शिष्टा मन्त्रा यथावच्च पूर्वमेव निरूपिताः । अस्य मन्त्रस्य महतो देवत्वात्सवितुस्ततः प्रातरुपस्थानमन्त्राः जपान्ते तदुपस्थानं यजुभिस्तत्समाचरेत् । ऋण पैरेव गायत्री प्रमुखैवेदमध्यगैः॥ मित्रस्येति त्रिभिर्दिव्यैः प्रातःकालेषु सन्ततम् । प्रथमं तत्र मित्रस्य पश्चान्मित्रो जनानिति ॥ प्रसमित्रेति पश्चात्तु तत्क्रमो वेदमध्यगः। शाखिनां निखिलानां च मित्रस्येति त्रयं तदा॥ यजुर्वेदोक्तरीत्यैव वक्तव्यं नान्यमार्गतः । एवमग्निश्च सूर्यश्च जलप्राशनचोदितौ ॥ आपः पुनन्तु च तथा आमित्येकाक्षरं तथा । दशप्रणवगायत्री प्राणायामाख्यकर्मणि।। या चोदिता पुरा सापि आयातु वरदा तथा । - यदहादिति मन्त्रश्च सर्ववर्णादिकं तथा ॥ अभिभूरों पञ्चकं च तथा गायत्रिया ततः । प्राणापानेत्यादिकं च उत्तमे शिखरे ततः॥ आवाहिताया गायत्र्याः स्वस्मिन्नेव विधानतः। यथेच्छाप्रेषणे तस्याः उपस्थानमुखेन वै॥ विनियुक्तो वेदविद्भिस्तदेवश्च तथापरम् । स्तुतो मयेति चरमं यजूंष्येव ततोऽखिलैः॥ नान्यत्र यत्र कुत्रापि तथा तस्माद्वदेत्सदा । अभिवादनकालेषु सततं प्रवरं शिवम् ।। हो (त्र) प्रवरमार्गेण प्रवदेन्नान्यवर्मना । आध्वर्यवप्रवरतो अभिवादनकादिषु ॥ - यदि क्रियाविशेषेषु कृतं चेन्नाशमाप्नुयात् ॥ __मार्जनमन्त्रसंख्या तथा सन्ध्यात्रये नित्यं चतुर्विंशतिमार्जने । आपोहिष्ठेति नवकं वारद्वयकृतं यतः ।। मन्त्रा अष्टादशस्युहि तदाते याजुषाः पराः। मन्त्राजातानर्चतस्ते वक्तव्यास्तवयं परम्॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy