________________
गायत्रीस्वरूपवर्णनम् संस्थितानामोजोऽसीति बनुषङ्ग इति स्मृतः। सप्तानामपि मन्त्राणां यजुषा पूर्वतोऽपिवा।।
परतो वानुषङ्गः स्यात् सोऽयं मास्त्वस्तु वा पुनः ।
विकल्पानामत्र पुनः समः प्राधान्यतो मतः ।। अतो यस्य यथेच्छ वै तदङ्गीकरणं भवेत् । अभिभूरों महामन्त्रः सर्वाकर्षणसुक्षमः॥
गायत्रीमुखदेवीनां छन्दर्षीणां च सप्रियाम् ।
एभिश्च पञ्चभिर्मन्त्रैः स्वात्मन्यावाहनं चरेत् ॥ गायत्रीमावाहयामीत्यादिकः पञ्चभिः शिवैः । महात्मनो ब्राह्मणस्य सर्वदेवस्वरूपता ॥ अभिवृद्धिस्तेजसः स्यात्प्रतिनित्यं त्रिवारतः । छन्दर्षिदेवतानां च तथानानां च बोधकाः।।
यजुर्विशोषागायत्राः शिखान्ताः सप्त कीर्तिताः । अथ पत्रात्पृथिव्योनिः प्राणापानादिकं यजुः ।। विनियोगान्तकं त्वेकं गायत्री रूपबोधनात् ।
आरभ्य तस्या देव्या वै गायच्या स्वीकृती मतम् ।। समीपवाचकः सोऽयमुपशब्दः प्रकीर्तितः । नयनं स्यादामयनं आकर्षणमिति स्मृतम् ।।
गायत्रीस्वरूपम् ओंभूर्भुवस्सुवश्चेति प्रथमं शीर्षमुच्यते। ओमित्येतद्वितीयं स्याच्छीषं तस्यास्ततः पुनः॥ सत्सेति तु तृतीयं च शीर्ष वेदमयं परम् । यजुर्वेदं भर्ग इति पादस्तुर्यमिहोच्यते ।।
धियो योनः पञ्चमं स्याच्छीर्षकं सामरूपकम् । त्रिपात्त्वं स्पष्टमेव स्यात्तत्स भर्गो धियादिकैः॥ तत्सवितुर्हि प्रथमा कुभिर्वेदाश्रया शिवा । वरेण्यं तु द्वितीया स्यात्कुक्षिः शास्त्रमयोऽपि वा ।। भर्गो देवस्य शक्त्याख्या तृतीया तु प्रकीर्तिता ।
धीमहीति तुरीया स्यात्कुक्षीर्लोकमयी तथा । धियो योनस्सुरमयी कुक्षिःसा पञ्चमी परा । प्रचोदयात् ब्रह्ममयी षष्ठीसासर्वरूपिणी।।