SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ब्राझममहत्त्ववर्णनम् पतिव्रतानां प्रबरा कामधेन्डाविका शिकाः । चिन्तामणिमहाबालाः कल्पवृक्षा प्रदाधराः॥ सप्तर्षयो महात्मानः विप्रमात्रेऽनिशं पुनः । स्वभागधेयकार्याय वसन्ति किल सन्ततम्॥ न ब्राह्मण्यात्परं वस्तु समं वा यत्रकुत्रचित् । भुवनेष्वस्ति सर्वेषु कलो केचन पामराः॥ ब्राह्मण्यादधिकत्वेन शैवं वैष्णवमेव च । गाणपत्यं च शाक्तं च तत्तदेकं पुनश्च हा ॥ वदन्तस्तेन नाम्ना च वयं युक्ताः सुभूषिताः। तन्नामधेयमस्माकं ब्राह्मथा साधारणं यथा । अधिकं सोमयाजित्वं वाजपेयत्वमेव वा । तत्पौण्डरीकयाजित्वं तथेदमपि चैककम् ॥ शैवादिकमिति प्रोचुर्ब्राह्मथा व्याप्यत्वमुज्वलम् । तदेतदत्यन्तमहामोहगाढविजृम्भितम् ॥ तव्याप्य धर्मो न भवेद् ब्राह्मण्यस्य कदाचन । अत्यन्तव्यभिचरितं शिवत्वादिकमल्पकम् ॥ तत्तु दर्शादियाजित्वं द्विजमात्रगतं यतः । तदसाधारणो धर्मः तच्छिवत्वाधिकं तथा॥ सर्वथा न भवेदेव तस्माद् ब्राह्मण्यमेककम् । सर्वोत्तममिति प्रोक्त आतीक्षिष्टेति सा श्रुतिः ॥ अयं ब्राह्मण्य इत्येव प्रोवाच किल तादृशी । यावतीरिति तद्वाक्यं ब्राह्मणेनैव सन्ति हि ब्राह्मणेभ्यो वेदविद्भ्यो नमस्कुर्यादिति स्म च। उदाहृत्य जगादैव तस्मात्तु ब्राह्मणोऽधिकः ॥ नित्यं ब्राह्मणशब्दोऽयं ब्राह्मणानां सुभूषणम् । शब्दान्तरं तु सततं शैवादि खलु तत्परम् प्रभवेदूषणायैव नात्र कार्या विचारणा । एवं सत्यत्र केचित्तु कलिधर्मेण केवलम् ।। दूषणं भूषणत्वेन स्वीकृत्य प्रत्युताद्यहा । तेनदूषणशब्देन भूषितान् दूषयन्त्यहो॥ एतत्किमिति चोक्त तु कलिधर्मस्तु तादृशः । कलौ नीचा महान्तः स्युः महान्तो नैच्यभागिनः॥ प्रायेण भूतले शिष्याः वहवो गुरूदूषकाः । गुरुभक्ता अतिस्वल्पाः पुत्रा जनकदूषकाः।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy