________________
७७
उपनयनकालकृतानां पृथक् क्षुरकर्माभाववर्णनम् तेषां तत. पुरोक्तानां जातादीनां तु कर्मणाम् ।
मौञ्जीकाले मन्त्रमात्रक्रिया कार्या न चापरा ॥ नाद्यङ्कुरप्रतिसरक्षुरादीनां पृथक् पृथक् । करणं शास्त्रविहितं न भवत्येव सर्वथा ॥
तस्मान्मोज्या कदाचित्तु चूडाकर्मकृतो तथा ॥ उपनयनकालतानां पृथक् क्षुरकाभावः
नान्यादिवत्क्षुरस्यापि न पृथक्करणं मतम् । तन्मात्रस्य पृथक्त्त्वेन करणे किल केवलम्॥ कुमारमातृभुक्त्यादि प्रसक्तया प्राकृतं महत् । कर्मोपनयनं सद्यो व्यर्थ नष्टं भवेदतः।
उपनीत्या सहैव स्यान्मातृमाणवकक्रिया । भुक्तयाख्या वर्णिनां चापि तत्पश्चादखिलक्रिया ॥ मौज्यास्तस्या इति परं तत्त्वं शेयं महात्मभिः ।
सवं तदोपनयनात्तस्य बालस्य केवलम् ॥ इच्छाभक्षणसञ्चारभाषणानीति धर्मतः। विहितान्येव तेषां तु शुचिश्चाशुचिरेव च ॥ तथाविधिनिषेधो वा पित्रोराशौचमेव यत् । तन्मात्रमेव तच्चापि मातुस्तद्रजसोद्भवम्॥
यन्मालिन्यं स्तन्यपान वा नैषां परं तु तत् । अहर्मात्रस्य कृत्स्नस्य रात्रिमात्रस्य वा तथा ॥ निद्रया स्नानसंप्राप्तिः तच्च स्नानं समन्त्रतः । उष्णोदकेन कृत्स्नस्य गात्रस्य क्षालनं परम् ॥ पम्यक् सर्वत्र नान्यत्स्यातच्चतुर्थाब्दिकात्परम् ।
तत्पूर्ववन्न भवति ज्ञानाभावे तु केवलम् ।। त्यक्तस्तन्यस्य घटिकामात्रसंवासतस्तथा । स्नानं स्यादेव संत्यक्तस्तन्यपानस्य पूर्ववत् ।। सर्वमेव भवेन्नूनं परं त्वेकं पुनर्मतम् । तन्मालिन्यं नास्य भवेत्तदोपनयनात्किल ॥
मौज्याः परं सर्व एव नियमाः सर्ववर्णिनाम् । क्षत्रियाणां च वैश्यानां नवमाब्दात्परं पुनः॥