________________
मार्कण्डेयस्मृतिः जनन्या भोजयित्वाऽथ कृत्वा दिग्वपनं शुचः। पश्चाद्भागे प्रामुखस्य कृत्वा कर्मक्षुरं तथा ॥ निक्षिपेच्च शिखां मौर्वायघोषप्रपूर्वकैः । ततः स्नातं कुमारं तं मात्रा साकं स्वयं शुचिः॥ निकटे स्वस्योपवेशयित्वा कर्म ( कुर्यात् ) तदादिकम् । पवित्रपाणिरखिलं कुर्याद्ब्राह्मणसाक्षिकम् ।। तदन्ते ब्रह्मणे दत्वा परं शक्त्या द्विजान् ततः। पूजयित्वा दक्षिणादिप्रदानैर्लोभवर्जितः ॥ नीराजनाशीर्वादादि गृहीत्वा ग्रामणानथ।
भोजयित्वा विधानेन स्वयं भुञ्जीत बन्धुभिः॥ एवं निवर्त्य तदनु तां मौञ्जीमष्टमेऽपि वा । गर्भाष्टमे ब्राह्मणानां कर्तव्यत्वेन शास्त्रतः ॥ चोदितत्वात्प्रकुर्वीत गर्भकादशवत्सरे। राजन्यानां विशां चेत्तु गर्भद्वादशवत्सरे ॥
मुख्यकालाः प्रकथिताः गौणकालान् परे जगुः । ब्रह्मवर्चसकामश्चेत् पञ्चमाब्दे समाचरेत् ।। नवमो दशमश्चाब्दः षष्ठो वत्सर एव च ।
काम्यकाला ब्राह्मणस्य राजन्यस्य तथाष्टमः॥ नवमो दशमश्चापि वत्सराकामनापराः। वैश्यस्य नवमः प्रोक्तः दशमस्तदनन्तरम् ॥ संवत्सराः काम्यकाला इति वेदविदो विदुः । सुमहानुपपत्तौ चेदाषोडशकवत्सरात् ॥ बाडबं चोपनीतैवमाद्वाविंशात्तु भूसुरा। वैश्यं चेदाचतुर्विशादिति वेदानुशासनम् ।।
तदूर्ध्व पतिता शेयाः सर्वकर्मबहिष्कृताः। जातकादीनि कर्माणि स्वस्वकालाकृतानि चेत् ॥ उपनीत्यैव कार्याणि तदा तेषां प्रधानतः ।
विद्यमानाखिला धर्माः समुख्याः प्रभवन्ति वै॥ प्रकृतस्यैव तस्यास्य धर्मा ये शास्त्रचोदिताः । तेषामेव प्रधानत्वेनैव स्याद्गणना परा॥