________________
नानासंस्काराणाम्वर्णनम् कर्मणस्तस्य पूर्व वा पश्चाद्वा तत्समाचरेत् । .
संकल्पपूर्वकं मन्नौः दिवस्पर्यादिभिः शिवैः ।। अभिमर्शनकर्मादि कृत्वा माधवकर्म च । व्याहृतीभिः प्रकुर्वीत मेधां तेति च मन्त्रतः॥
त्वयि मेधामिति प्रोक्त्वा नष्टयं कर्म चाचरेत् । अथाग्नि च प्रतिष्ठाप्य फलीकरणवस्तुतः ॥ हावयित्वा सर्षपैश्च प्रैषं कुर्याच्च शास्त्रतः ।
ततस्तमग्नि वेधिना धारयीतैव तच्छिशोः॥ रक्षार्थ होममात्रं तत्कुर्यादन्वहमेव वै । प्रथमे दिवसे होमात्परं सत्वरमेव वै॥
अर्चयेद्ब्राह्मणान् भक्त्या गन्धाक्षतसुमादिभिः । ताम्बूलदक्षिणाभिश्च धान्यदानैरनेकशः ।।
वस्त्रौर्गोभिर्धनै रत्नैः शक्त्या लोभविवर्जितः । सर्वमङ्गलवाद्यानि कारयीतैव शक्तितः । सुमङ्गल्यर्चनं नित्यं तद्गानैकप्रपूर्वकम् ॥ .. नीराजनं मन्त्रपूर्वामाशिषश्च क्रमास्मृताः । नित्यमेवं प्रकर्तव्यं सत्यां शक्तचामतत्परः ।। ___उत्सको नास्ति सर्वेषां तस्मादेवं समाचरेत् । पुत्रजन्मनि यहत्तं ग्रहणे चन्द्रसूर्ययोः॥
पित्रोः क्षयाहेऽयनयोः दत्तं भवति चाक्षयम् । तस्मात्सवप्रयत्नेन शक्तथा दानानि चाचरेत् ।। महत्युत्सवे तादृशेऽस्मिन् लोभशाठ्यविवर्जितः ।।
नामकरणम् अन्नप्राशनम् चूडाकर्म एकादशे द्वादशे वा नामकर्म च शास्त्रतः । व्यवहाराय नाम्नस्तु पिता कुर्यात्कलत्रवान् ॥ . बलवीर्यादिसिद्धर्थ षष्ठेऽन्नप्राशनं चरेत् । भूरपामिति मन्त्रौस्तैः रक्षाबन्धनपूर्वतः ।।
ब्राह्मणान् भोजयेच्चात्र शक्तथा दक्षिणया तथा ।
ततस्त्रैतीयके वर्षे चूडाकम विधानतः ।। कुर्यादरपूर्व वै संकल्पानन्तरं शुः । कृत्वा प्रतिष्ठा विधिना कुमारं वर्णिभिः सह ॥