________________
७४
.: मार्कण्डेयस्मृतिः
उपनयने शिखाधारणम् जातकर्मादीनां सर्वेषामुपनयनकाले कर्तव्यता
शिखानिधानं कार्य स्यादित्येवं मनुरब्रवीत् ।
मौज्यां कृत्स्नस्य जातादिकर्मणः करणं स्मृतम् ।। तस्मिन्नेव दिने तेन कर्मणा तत्समाचरेत् । कर्मणामपि सर्वेषामकृतानां स्वकालके ॥ स्वकालविहितेनैव कर्मणा करणं विधिः । प्रधानकर्मणः पूर्व गतस्य करणं स्मृतम् ।।
न तु पश्चादिति विधिः नापि पूर्वदिनेऽपि वा।
गतानि यानि कर्माणि कृत्वा तानि क्रमेण वै॥ पश्चात्प्राधानिकं कर्म कुर्यादित्येव सा श्रुतिः। समयाचारशब्देन कर्म स्मार्त तदुच्यते॥ प्रकृते तस्य यत्प्रोक्तं प्रतिपादकमञ्जसा । सूत्रं तदेव नान्यत्तु तदेतद्यश्चतुष्टयम् ॥ पूर्वैराचरितं कार्य पूर्वे पितृपितामहाः । प्रपितामहाद्याः स्युस्ते तैरशास्त्रकृतं(विहित)तु चत तत्त्याज्यमेव सुतरां शाखीयं यत्तदाचरेत् । स्वसूत्रोक्तप्रकारेण स्मार्त कर्म श्रुतीरितम् ।। तत्र ब्राह्मण्यकरणं मौञ्जोकर्मोत्तमं स्मृतम् । तद्योग्यतापादकानि जातकादीनि मुख्यतः।। कर्तव्यत्वेन चोक्तानि तत्पश्चात्तत्समाचरेत् । जाते पुढे जातकर्म विहितं शास्त्रवर्मना । तक्रियायोग्यतासंपादनाय स्नानमुच्यते । तच्च स्नानं विशेषेण जातमात्रे विधीयते ॥
सद्यो बहिर्जले कुर्यात्कुर्वन् स्थापनमञ्जसा ।
यावत्प्राणं सत्वरेण चैलं कट्यां दृढं स्वयम् ।। त्रिवेष्टयित्वातिमुदा बन्धयित्वा च पर्वणि । सघोषं निपतेदप्सु चोर्ध्व तत्सलिलं यथा। प्रोद्गच्छेत्सर्वतो दूरं चंक्रमन्निपतेत्तथा । तदुक्षिप्तेनोदकेन पितरोऽस्य तदुन्मुखाः ।।
अत्यन्ततृप्ताः सुखिताः क्षुत्पिपासाविवर्जिताः।
आनन्दसागरे मग्ना: भवेयुस्तकश्मलाः ।। तथा स्नात्वा तटं प्राप्य स्नानतर्पणतः परम् । वस्त्रद्वयं पीडयित्वा भूतलेऽत्यन्तभक्तितः।। एतज्जलं च केषांचित्पितृणामिति चेतसा । दृढवस्त्रः सुपुण्डुश्च जातकर्म समाचरेत् ।। नान्दीश्राद्धं विधानेन हिरण्येनात्मकेवलम् । कर्तव्यमविलम्बेन शुचिना दर्भपाणिना ।।