________________
७२
मार्कण्डेयस्मृतिः
तदन्यत्र धर्मादिघनकर्मसु चेत्पुनः । तदेव हौत्रं विहितमाश्वलायनवर्त्मना ॥ हौत्रं तद् याजुषं वेदचोदितं ब्राह्मणात्परम् | प्रश्नत्रयमितात्सम्यक् सर्वेष्टीनां समञ्जसम् याज्यापुरोऽनुवाक्याभ्यां प्रधानहविषः पुनः । तद्विशेषस्य तत्रत्यप्रयोगस्याखिलस्य च ॥ सामिधेनीभिरेवं वै पुरोॠग्भिश्च तादृशैः । तथा पत्नीसंयाजान्त निरूपणमुखादितः ॥ तस्मात्तदेतत्सूत्रीयाणामेव नितरां मतम् ॥ सूत्रान्तरेण संस्कारे दोषः
यदा स्मार्त तथैव स्याद्यदन्येन कदाचन । सूत्रेण संस्कृतो मोहात् पुनः संस्कारमईति ॥ स्वसूत्रोक्त ेन विधिना न चेत्पातित्यमर्हति । शाखां शिखां च सूत्रं च समयाचारमेव च ।। पूर्वैराचरितं कुर्यादन्यथा पतितो भवेत्। पूर्वोक्तानां तु सर्वेषां षण्णामपि च सूत्रिणाम् ॥ शाखेयं तैत्तिरी ज्ञेया शिखा तेषां पुरो भवेत् । बौधायनीयसूत्राणां तत्र केचन बाडबाः ।। पश्चाच्छिखा दुर्लभाः स्युस्तेऽत्यन्तं प्रतिपादिताः । अत्यन्तात्युत्तमत्वेन तद्भिन्नाश्च तथा पुनः ॥ जघन्यातिजघन्यत्वेनैवेति निखिला जगुः ||
शिखाधारणप्रकारः
पुरः शिखा यदि पुनः याजुषा बह्न चास्तथा । छन्दोगा वा न तैस्तुल्या बौधायनिभिरञ्जसा ।। पुरशिखैः किंपुनश्चेदधिका एव केवलाः । वैदिकाश्च महात्मानः पङ्क्तियोग्या इति स्मृताः ॥
प्रायेण भूतले सर्वे याजुषा बहू चास्तथा । न्यङ्गवैकल्यरहिताः सर्वत्राप्युत्तमोत्तमाः || छन्दोगेषु तु सर्वत्र जघन्याः स्युः कचित्कचित् । ते त्यक्तवेदसूत्रत्वादन्यवेदपरिप्रहात् ॥ संगृहीतान्यसुत्रत्वात् द्वाभ्यां तेषां जघन्यता । तेषां सदाप्येतदेव दूषणं नान्यदुच्यते ॥ कदाचित्त े तु निखिलाः छन्दोगाः कालभेदतः । संत्यक्तवेदसूत्राः स्युः प्रायेणैवेति तत्त्वतः ॥