________________
नानासूत्राणां शाखाभेदवर्णनम् ससार्वत्रिकमित्येव प्रसिद्ध तत्तु केवलम् । तन्मात्रकं ततस्त्वेकं मया प्रोक्त विशेषतः॥ यथैव याजुषं होत्रं आपस्तम्बेन सूत्रितम् । येन केन तथान्येन यत्र कुत्र न कीर्तितम् ।।
सूत्रकारैश्च निखिलैः गाह्मकर्मणि कृत्स्नशः। पृथक्त्वेनैव सर्वाणि चोपदिष्टानि सूत्रतः ॥ अग्निहोत्रं पितृयज्ञः शिष्टं श्रौतं यदस्ति तत् । आध्वर्यवं तु यजुषा ऋचा होत्रं तथैव च ॥ साम्नोद्गात्रं च सर्वेषां सममेव न संशयः।
यथा वा यजुषा हौत्रमिष्टिकाण्डस्य कृत्स्नशः ॥ ऋचा तथाध्वर्यवंन साम्ना वान निरूपितम्। यजुर्वेदस्तादृशोऽयंऋचांसाम्नां समाश्रयः
नित्यस्वतन्त्रः सुमहान् सदा सर्वनियामकः । तदाध्वर्यवसूत्राणि षट्संख्याकानि केवलम् ॥
तदप्येकं प्रकथितं सूत्रं वाजसनेयकम् । यजनं खलु सर्वत्र बहू,चानां निरन्तरम् । छन्दोगानां च तत्सूत्रद्वयं दृष्टं न चेतरत् ॥ आपस्तम्बेन रचितं तथा बौधायनं च तत् । सप्तानामपि सूत्राणां याजुषाणां पुनस्तदा।
छन्दोगानां बल,चानां ऋग्वेदादेव हौत्रकम् ।
औद्गात्रं च तथा प्रोक्तं सामतस्तु नचान्यतः ।। होत्रमृग्वेदरचितं औद्गात्रं च तथाविधम् । कण्वानां बाष्कलानां च तथा काठकिनामपि ॥ कौषीतकानां जैमिनिसूत्रिणामपि चोदितम् । शाट्यायनिमुखानां तु यजनं न कलौ मतम् । उत्सन्नास्ते हि तच्छाखास्तञ्च सूत्रं तथाविधम् ।
अनुत्सन्नदशायां तु हौत्रमौद्गातृकं तथा ॥ तेषामेतदृग्विधानवर्त्मनैव न चान्यतः । हौत्रं तु याजुषं यत्तु याजुषाणां तदुच्यते ।।
न चान्येषां कदाचिस्यात् यदि स्यात्कर्म तवृथा । याजुषाणां च तद्धौत्रं यावत्तावत्प्रकीर्तितम् ।।