________________
मार्कण्डेयस्मृतिः
__ औखेयसूत्रम् औखेयनामकं सूत्रां चकार विदितात्मवान् । तदेतदपरं सूत्रं सर्वसारं समुन्नतम् ॥ सर्वेषां समतं सर्ववेदवेदिविभूषगम् । वैधानसाख्यस्तु मुनिः वेदे वाजसनेयके । यजुःप्रभेदे कस्मिंश्चित्पञ्चविंशत्कशाखके । षडशीतिमहाशाखाराजमाने च सन्ततम् ।।
सर्वाधिके सर्ववन्ये मुख्य यजुषि पावने।।
अपि कान्कान्महानर्थान् स्वमत्यालोच्य केवलम् ॥ समादाय समादाय पाठं वासिष्ठनामकम् । अनुसृत्य विधानेन कल्पे कल्पे शनैः शनैः।।
सूत्र तत्कल्पयामास शिवं वैखानसाख्यकम् ।
सर्वाण्येतानि सूत्राणि याजुषाण्येव केवलम् ॥ तदावर्यवकृत्याय जागरूकाणि सन्ततम् । वेदिनामपि सर्वेषां सम्यक् साधारणानि हि॥
बह चाः केचिदस्मिन् वै महार्थे त्वध्वरीयके ।
आध्वर्यवाय तत्सू प्रथमत्वादिति स्वयम् ।। बौधायनं प्रशंसन्ति संगृहन्ति तथा परे । सर्वे विवेदिनश्चेत्तु ऋग्वेदिषु तथा पुनः॥ बहवः सुमहात्मानः सर्ववेदविदां वराः । आध्वर्यवाय नितरां आपस्तम्बीयमेककम् ॥ सूत्रं तत्प्रवरं मुख्यं सर्वसूत्रोत्तमोत्तमम् । यजुस्सूत्रं तदेव स्यान्मुख्यतोऽन्यत्तु गौणतः।। एतत्तुल्यप्रसिद्धरप्यभावेनैव तत्परम् । तत्तन्मात्रीपयुक्त हि न सर्वेषां च वेदिनाम् । उपयुक्त भूतलेऽत्र सूत्रं तस्मात्तदेव वै । सर्वसंशयहं सर्वप्रयोगविशदं पुनः॥ सर्वैरंगीकृतं सर्वलोकश्रुतिमनोहरम् । कल्पाख्यं च तदेवैकमार्ष भगवता कृतम् ॥ सर्वेषां यजने मुख्यत्वेनैव स्वीकृतं महत् । नैतत्समन्ततोऽन्यत्तु सूत्रं पतितपावकम् ।। न विद्यते सर्वथैव हौत्रार्थं तु यथा तथा । आश्वलायनसूत्रं वै सर्वस्मादुत्तरोत्तरम् ॥ हौत्रकार्यऽपि भगवान् स्वतन्त्रः पारतन्त्र्यहा । सूत्रयामास वैशथमनुसृत्य महामतिः॥ यजुर्वेदगतैर्मन्त्रैरापस्तम्बः स सर्ववित् । तस्मात्तु तादृशं सूत्रं नास्त्येवेति सुनिश्चयः॥ परमाध्वर्यवं तब सूत्रं वाजसनेयकम् । यजुर्वेदार्थघटितं तथाप्येतत्पुनः परम् ।।