________________
भारद्वाजसूत्रनानावेदशाखानांवर्णनम् तान् वेदांस्तपसा लब्ध्वाशनकै शनकैरति । कालेन महता पश्चात्तदर्थानखिलान् परान् । हात्वा स्वनाम्ना चकमे सूत्र परमपावनम् । विशदार्थ लोकहितं तदेतत्सूत्रमुत्तमम् ।
भारद्वाजसूत्रम् भारद्वाजमिति प्रोक्तं सर्वसारं सनातनम् । तत्तकालेन महता केनचित्कारणेन वै ॥
वैशंपायनशिष्योऽसौ कात्यायनमुनिः किलः ।
परं गुरोविवादेन स्वाधीता निखिलाः पराः ।। समुत्ससर्जताःशाखाः तदससत्वरोज्झिताः । संकीर्णस्त्वथवन्नूनं त्यक्तरूपाः प्रकीर्णकाः अत्यन्तयत्नसाध्याश्च व्यत्यस्तस्वरवर्णकाः । अस्पष्टा एकरूपाश्च तदा श्रीमान् महामनाः
सरस्वान्नामको योगी वेदतत्वविशेषवित् । वेदान् शाखान् पाठकांश्च कल्पयित्वा विभागशः ॥ बुध्या संगृह्य संगृह्य स्थापयित्वा पृथक् पृथक् । एतानवयवान् सर्वान् वेदीयान् छिन्नभिन्नतः ॥ एकरूपस्थितान् यत्नाद (?) वेक्ष्या यवीति वै । अयमेकोऽयमेको वै चेतिरीतिं शनैः शनैः॥
चकार किल मेधावी सरस्वान् तत्र केवलम् ।। अत्यन्तैक्येन कस्मिंश्चित्प्रदेशेऽत्यन्तदुर्घटे । दुर्विज्ञेये दुर्विगाह्य वर्णराशिः स्वरादिना ।।
संक्षिप्ते छन्दतो श्लिष्टे किं करोमीति चेतसा ।
तित्तिरिः शकुनिर्भूत्वा क्षणमात्रेण तादृशम् ॥ राशि सर्व यथावत्तं चकमे किल सर्ववित् । समीकरणशक्तिस्सा पक्षिणस्तस्य केवला ।। औत्पत्तिकी परा ज्ञया तेन रूपेण वै ततः । तत्कालं साधयामास तद्र पेण स सर्ववित्।। तदा सारस्वतः पाठः परः कोऽपि बभूव हि । तं पाठं तादृशं दिव्यं राहुमुक्तन्दुवत्तराम्।।
अत्यन्तनिर्मलं शुद्ध पावकं स्वत एव वै समुद्वीक्ष्यानुसृत्यैवं अग्निवैश्यो ( वेशो ) महानृषिः॥