________________
६८
मार्कण्डेयस्मृतिः
यः सोऽयं ब्रह्मपाठाख्यस्तं ज्ञात्वासौ महान् पुरा । सूत्रं तदनुसारेण सर्वशाखार्थरञ्जितम् ।
आपस्तम्बसूत्रम्
आपस्तम्बश्चकारासौ स्वनाम्ना वेदरूपकम् । सर्ववेदार्थेकन्यूनाधिकशून्यं जगद्गुरुः ।। तदापस्तम्बसूत्रं स्यादखिलं ब्रह्म विद्धि तम् । तं पाठं भगवान् व्यासः साक्षान्नारायणात्मकः ॥ हिताय सर्वलोकानां शाखाभेदान् प्रकल्प्य च । काण्डप्रश्नान् स्पष्टयित्वा ऋग्यजुस्सामनामतः ।। अथर्वणादिनासम्यक् पृथक्त्त्वेन च तान् क्रमात् । कल्पयित्वातिसौन्दर्यसौलभ्याभ्यां समन्वितम् ॥ बोधयामास तान् सर्वान् ऋषीणां भावितात्मनाम् । सोऽयं पाठो व्याससंज्ञ पाठं तमनुसृत्य वै ॥
सत्याषाढसूत्रम्
सत्याषाढमुनिश्वक सूत्रं तत्किल तादृशम् । सत्याषाढाख्यकं सम्यक् तार्तीयीकं तदुच्यते ॥ पुरा कदाचित्कोऽप्यस्मिन् दण्डकाख्यो महासुर । दुःखाय किल देवानां वेदान् सर्वान् स्वयं महान् ॥ सं सर्वलोकानां विनाशाय तु कोणपात् । सिन्धौ तिरोहितस्त्वासीत् चिरं दत्तवरोऽसुरः ॥
तदा देवगुरुः श्रीमान् सर्वदेवहिताय वै। तेषां प्रार्थनयातीव तुष्टः सर्वेश्वरो विभुः ॥ मत्स्यरूपेण तं हत्वा तान् वेदान् तद्वशे स्थितान् ।
समादाय जगत्यस्मिन् देवकार्यचिकीर्षया ।
चतुर्मुखमुखेनैव विशदीकृतवान् किल । भरद्वाजस्तदा श्रीमान् शुनासीरमुखेन वै ॥