________________
... मार्कण्डेयस्मृतिः ज्योतिष्टोमादयस्त्वेवं बहुरूपाः श्रुतीरिताः। नाशक्या एव सुतरां सुलभा देशकालतः ।। एकोऽप्ययं ऋतुः श्रीमान् साध्या वत्सरतस्तथा।मासतश्च चतुर्विंशदिनतो द्वादशादितः॥
एतागुच्या सोऽयं किमसाध्यः शक्य एव वा। अनन्तमार्गभेदैस्तैरनन्तत्वात्प्रपश्यत ।। अपरे शेय एवेति किं वा चैतद्य ईदृशः।
अभ्यासात्सुलभः सूक्ष्मः अनभ्यासे तु केवलम् ॥ हालाहलाधिकश्चेति भयव्यामोहकार्यति । बहुना किं स्नानमेकमादौ शतविधं स्मृतम्॥ मन्त्रतन्त्रक्रियाभेदैः तेस्तैरुक्तं महात्मभिः। तदसाध्यमतश्चेति तद्गतिर्गहना परा ।। इति त्यक्तुं तु तद्युक्तं सर्वमेवं शतोत्तरम् । अनन्तत्वेन च प्रोक्त प्रस्ताराल्लौकिकादपि ॥ कृत्यादिछन्दसां वृत्तसंख्यासु महतीति वै । स्पष्टत्वेनैव सर्वत्र शाता यद्यपि तावता ॥ नास्त्येव हि महाभीतिर्नष्टोद्दिष्टप्रमाणतः । अतिसौलभ्यतो ज्ञातुं वृताना तादृशामपि॥
तत्त्वं स्वरूपं लगयोः (लमस्य) संख्यानं च ततः परम् ।
अध्ययोगश्वरमपि यथा सौलभ्यभागयम् ॥ तद्ववेदाश्च सूत्राणि तान्यङ्गानि विनैव हि । ज्ञानेन बहुलायासं तत्स्वरूपं तथाविधम्॥ मात्राबलं वर्णवर्त्मसन्तानातानतत्वगाः । ज्ञातुं सुखेन शक्यन्ते तस्माद्वेदेषु तेष्वपि ॥ यत्र कुत्र ग्रन्थराशौ शङ्काप्रामाण्यसंशयाः । न भवेयुर्हि महतां ज्ञानिनां तत्ववर्त्मनः ।। विशेषदर्शनं तस्य वेदप्रस्तार एकशः । विशेषदर्शने तस्मिन् अप्रामाण्यैकवारको । नष्टोदिष्टौ सत्र चापि सर्वसंशयवारकः। लमक्रियाप्रकारोऽयं तत्र संख्यानमुच्यते ॥ अध्वयोगपुनस्तत्र प्रतिवर्ण पृथक् पृथक् । तस्मादेतेषु सर्वेषु विद्याभेदेषु कृत्स्नशः ।। उपदिष्टेषु विशयो नास्त्येव सुतरां खलु । नैवं स्मृतिषु सर्वासु पुराणेष्वखिलेषु वा ॥ तस्मात्तन्मध्यसंप्राप्तप्रक्षिप्तग्रन्थविस्तरैः । तानि सर्वाण्यप्रामाण्यकलङ्कितशरीरतः॥
आचारसंशयेष्वत्र सम्यक् स्युन विधायकाः । सर्वसाधारणेष्वेषां कार्येष्वपि च कर्मसु । परस्परविरुद्ध षु सत्सु शास्त्रान्तरेष्वपि ॥