SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ सर्वधर्मशालप्रणाथनकत नामेकवाक्यतालक्ष्यवर्णनम् उपाकर्माप्येवमेव श्रावण्या तत्समाचरेत् ।। वेदादयः स्वीकृताश्चेदियान वेदोऽखिलः समः॥ स्वीकारोत्सर्गयोरेवं वेदानां प्रतिवत्सरम् । उपदेशमुखेनैव कर्तव्यत्वं श्रुतीरितम् ।। तस्मात्तएते निखिला वेदविद्यादयः सतः। ब्राह्मणस्यानुल्लद्ध्याः स्युस्तैरुक्तानि तु यानि वा ।। कर्माणि कर्तव्यत्वेनव विहितानि समासतः । तान्येवेति न चान्येन यदि तानि पराश्च याः॥ विद्या अनुपदिष्टा हि तास्तस्मान्निखिलाः पराः। अत्यन्तावश्यकत्वेन न संग्राह्याः कदाचन । यद्य तदविरोधेन स्युश्चैतानि हि वैदिकैः ।। व्यतिरिक्तविद्या स्वीकतुं शक्यते नो चेत् तानि सर्वाणि ताश्च वै। स्वीकतुं नैव शक्यन्ते एतद्भिन्नास्ततः पराः ।। शिल्पविद्यादिवत्प्रोक्तास्तदुक्ता अपि तक्रियाः। अविरोधे परिग्राह्या विरोधे सति ताः पुनः ।। अत्यन्तदूरतस्त्याज्याः मानवं तत्र केवलम् । यद किञ्चेतिवाक्येन भेषजत्वेन चोदितम् ।। तच्छावं तेन संग्राह्य मनुनैव प्रकीर्तितम् । यद्यप्यनुपदिष्टं तत्तथा गौतमनिर्मितम् ।। सुत्रकारकृतं सर्व कश्यपादिप्रकल्पितम् । तदाज्ञया विरचितं शास्त्रं पाराशराख्यकम् ।। वेदव्यासेन रचितं शंखेन लिखितेन च । रचितं धर्मसिध्यर्थ कृतं कात्यायनेन च । यदेतदखिलं शास्त्र वेदसूत्राविरोधतः । सर्वसाधारणेनैव यदेतत्प्रतिपादितम् ।। तदेतत्सकलं पाह्य तद्भिन्नं यत्सरित्यजेत् । सर्वस्यामपदिष्टत्वादत्यन्तावश्यकं स तु ॥ अविरुद्ध धर्मशास्त्रमात्रं सर्वर्षिसम्मतम् । अत्यन्तानुपदिष्टत्वेऽप्येतस्कैश्चिन्महर्षिभिः ।। वेदसूत्राविरुद्धत्वादर्शनीयं च तेन वै । संग्राह्यत्वेन तद्धर्मकार्याणां नित्यकर्मणाम् ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy