________________
मार्कण्डेयस्मृतिः न प्रवेश्यो न पूज्यश्च न संस्पृश्यश्च सर्वथा ।
तक्षितान्नपुलकसंख्याजन्म स्वयं पुनः । बालरण्डा भवेन्नूनं तस्मादेनं निरन्तरम् । चित्यग्निदग्धोल्कातुल्यं न पश्येच्छुभकर्मसु॥ यद्ययं देहसंस्पृष्टः कदाचिदवशादपि । स्पृष्टस्थालं जलेनैव संप्रक्षाल्य करेण वै । .
स्वकर्ण दक्षिणं दृष्ट्वा नासिकान्तं च तारतः।
त्रिवारं व्याहृतिश्चापि जपित्वैवं पुनस्ततः ॥ इदं विष्णुं जपेञ्चापि नासौ नोचेद्भवेद(दि)ति । दौर्भाग्यप्रथमं पानं शरणं निखिलागसाम्
त एते ये (१) प्रोक्ताः निखिलेनासदोद्य वै ।
न योग्यास्सर्वकार्याणामित्येवेति सुनिश्चयात् ।। न हव्येषु न कव्येषु शान्तिपौष्टिककर्मसु । लौकिकाघविशेषेषु पुण्यवैदिककर्मसु ।। स्वबुध्या नाह्वयेन्नित्यं नापि संभावयेदपि । यद्यागताः स्वयं ते तु पुरस्कार्यान चैव हि। न गौरवं प्रकुर्वीत ताटस्थ्यं तत्र चाश्रयेत् । तत्कृतं चोपकारं वा नाङ्गीकुर्याद्विशेषतः ॥ कथञ्चन विशेषेण परिषत्सु न योजयेत् । विधायकेषु वा नूनं मृत्वेक्ष्वपि विचक्षणः॥
परित्याज्याश्च ते ये स्युः सन्ततं प्रामयाजकाः ।
तत्प्राधान्यपराः पापाः वृत्त्यन्तरविहीनतः॥ एतावदेतत्कार्याय समष्टिजनकल्पितः । करवृत्तिविशेषोऽयं ये वा तज्जीविनो द्विजा ।
प्रशस्ता वापि ते सर्वे तानेतान् सर्वकर्मसु ।।
परित्याज्याब्राह्मणलक्षणम् परित्यजेद्विशेषेण वेदिनोडा(दा)म्भिकानपि । काकवृत्तीन व्याघ्रवृत्तीन् बकवृत्तीन दुराशयान् ।। सुतरां वर्जयित्वैव समीचीनान् सुचेतसः। येनकेनापि सन्तुष्टान् सद्वृत्तीन् पुण्यपापयोः ॥ कृतचित्तान् विचारेषु सदाचारपरानपि । न यज्ञान बुद्धिसंपन्नान् सदा दाक्षिण्यसुन्दरान् ।।