________________
मार्कण्डेयस्मृतिः सर्वेभ्यश्चापि पापेभ्यः सकाशाद् ब्राह्मणो महान् । तारयेदवशान्नूनं वेदविच्छासपारगः
बामणस्योत्तमत्वे मनुनारदाधु क्तश्लोकोदाहरणम् अनेदं मनुना गीतं वचनं श्रुतिरूपकम् ।
यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः ।। कव्यानि चैव पितरः किंभूतमधिकं ततः । नारदेनात्र कथितःश्लोककश्च न तारकः ।। एक एखात्र निपुणः पाप्युद्धरणकर्मणि । उपायेनैव लघना वाक्यमाओण बाडबः ।। पुरा प्रोवाच भगवान् नन्दिश्लोकं पुरोदितम् । शंभुना देवदेवेन गौर्यै स्कन्दाय तत्वतः॥ अस्मिन्नर्थे सर्वदेवपुरतः कारणेन वै । तं वो निरूपयिष्यामि तज्ज्ञप्त्यै शृणुताधुना। देवतानि न तीर्थानि क्षेत्रकृच्छ्रतपांसि च । तुलितानि ब्राह्मणेन भवेयुर्वेदिना सता।
यथाकथंचित्पूज्यः स्यात्सर्वकर्मसु सन्ततम् । अब्राह्मणो ब्राह्मणोऽपि त्वपानं पात्रमेव वै ।। नामधारकमात्रो वा तथैव ब्राह्मण वः॥
श्रोत्रियाश्रोत्रियादितारतम्यम् श्रोत्रियो वेदतत्त्वज्ञो वेदपारग इत्यपि । ब्राह्मणानां तारतम्ये कथितं ब्रह्मवित्तमैः ।। ब्रह्मवीर्यसमुत्पन्नो मंत्रसंस्कारवर्जितः । जातिमात्रोपजीवी च बसावब्राह्मणः स्मृतः ॥ .
विवाहितायां ब्राह्मण्या ब्राह्मणाजनितो यदि।
मन्त्राभासक्रियामात्रो ब्राह्मणःस्यात् क्रियाक्षमः॥ सज्जन्मतः क्रिपालोपादपात्रमिति कथ्यते । सज्जन्मतस्सक्रियया पात्रमित्युच्यते बुधैः।।
सज्जन्मतोऽसक्रियया नित्यकर्मादिशून्यतः । जातिमात्रोपजीवी यः स प्रोक्तो ब्राह्मणब्रुवः ॥ सज्जन्मनासंस्कृतः सर्वैः नित्यकर्मादिकृत्स्वयम् ।
शाखामात्राध्यायी च श्रोत्रियः कथितोऽखिलैः॥ ... वेदशास्त्रादितत्त्वज्ञः सर्वसंस्कारसंस्कृतः। ब्रह्मविद्ब्राह्मणो योगी वेदपारग- उच्यते ।।