________________
सर्वपापोत्तारणे ब्राह्मणानामेववचनप्रामाण्यवर्णनम् कृत्स्नान् शास्त्रमहामार्गावितथेनैवतान् स्वयम् । अनूद्य वेदमार्गेण त्रिवारं सम्यगेव वै तथोर्ध्वबाहुनिष्कर्ष तस्योद्धरणहेतवे । अन्यूनानतिरिक्तन प्रकुर्यादिति सा श्रुतिः॥ तत्रादौ शास्त्र(ह)ष्टानि यजमानस्य केवलम् । सभाभ्यनुज्ञा प्रथमोऽभ्यनुज्ञा स्वकृतिस्ततः परिषदक्षिणापश्चादशस्नानानि तानि वै । मृदादीन्यदि शुद्धय कहेतूनि प्रवराण्यति ॥ पावनानि प्रशस्तानि महर्षिगदितान्यपि । संकल्पश्चापि वरणं त्रयाणां च पृथक् पृथक् ।। सर्वेषामपि भूयश्च तत्तत्कृत्वानुरूपतः । अन्तरा ब्राह्मणं कृत्वा नान्दी पुण्याहपूर्वतः ।। कृत्वैव च विधानेन प्राच्याङ्ग च ततश्चरेत् । तथैव वैष्णवश्राद्ध शालाहोमश्च पूवकः ।। विज्ञापनाप्रकारश्च वचनं वाचनं तथा । अनुवादकवाक्यैकप्राधान्येनैव केवलम् ।। विधायकानां वाक्यानि पर्यालोचनयैव हि । शास्त्राणामपि सर्वेषां पश्चात्परिषदामपि परस्परैकवाक्यानि सर्वेषामेकवाक्यतः । निश्चयेन ततःपश्चादेकैकत्वेन तत्परम् ।। यजमानमुखं दृष्ट्वा त्वं वदेति ततः पुनः । वाक्यं परिषदां श्रीमद्वचनं तेन तत्परम् ।। अनुवादकवाक्यं च तत्तच्छत्त्यनुसारतः । कृच्छानुष्ठानतस्तस्य परा सा कृतकृत्यता॥
जाता तवेति य (त् ) प्रोक्तिः शालाहोमस्ततः पुनः ।
उत्तराख्यश्च परमो गोदानं दक्षिणादिना ।। उदीच्यनामकं दिव्यं तच्छ्राद्धं च ततः परम । भोजनं ब्राह्मणानां च भूरिदानं विशेषतः दशदानानि पुण्यानि सर्वपापेभ्य एव च । मुक्त्यैभूयासमित्येव यजमानस्य चिन्तनम्॥ सर्व तदेतत्तरणोपायाः मर्त्यस्य देहिनः । प्राणिमात्रस्योपदिष्टाः सर्वे विप्रमुखेन वै ॥ सर्वपापोत्तारणस्य ब्राह्मणा एव वेदिनः । उपायाः कथिता वेदशास्त्रकल्पादिभि ढम् ॥ विना विप्रमुखं कर्म न किञ्चिदपि विद्यते । कर्ममात्रे ब्राह्मणो वैसाक्षीसर्वस्य वैधतः ॥ ब्राह्मण (स्य कृतं) पूर्व ब्रह्मणा वेधसा तथा । ब्रह्मणा रहितं कर्म तस्मात्कतुं न शक्यते । ब्राह्मणानां तद्धनस्य निक्षितस्य स्वशक्तितः। विभागः शास्वरचितः इत्येव श्रुतिसूत्रतः ॥
पादः परिषदं गच्छेत्पादो गच्छेद्विधायकान् ।
पादोऽनुवादकं गच्छेत्पादं कृच्छ्रषु विन्यसेत् ॥ एवं यो ब्रह्ममुखतः प्रायश्चित्तं करोति वै । तरत्येवाशु तस्मात्तु कृतकृत्यो भवेदपि ॥