SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ माकण्डेयस्मृतिः स्वकार्यकरणाशक्ताः तथा वेदविवर्जिताः । अनुग्रहकराः प्रोक्ताः महद्भिर्ब्रह्मवादिभिः ।। यदि मौढ्य न ते तूष्णी श्रोत्रियान्तर्गताः खलाः । परिषत्स्वपि तिष्ठन्तस्तथास्त्विति वदन्ति चेत् ।। जिह्वायां तु तदीयायां प्रोतयित्वा खरं तु तत् । शूलं दूताः कालसूत्रे याम्यास्तं ताडयन्त्यति ॥ तत्कर्म च तथैव स्याद्यथाप्रोक्त पुरा किल । तस्मात्तु कर्मसाद्गुण्यहेतवे वैदिकान् शुचीन् । झात्वा परिषदः कुर्यादन्यथा नाशमेति तत् । तत्कर्मापि प्रनष्टं स्यात् परिषत्त्वस्य तस्य च ॥ सभ्यलक्षणम् विधायका महान्त स्युर्वेदशास्त्रार्थवेदिनः। धर्माधर्मैकनिपुणाः कृत्याकृत्यविशेषगाः ।। पुण्यपापातिभीताश्च दयादाक्षिण्यतत्पराः। पौर्वापर्यविशेषज्ञा देशकालानुगुण्यतः ।। प्रवाचनैकनिपुणाः तथा प्रवचनेऽपि च । त्रय एव हि ते प्रोक्ताः ह्रीश्रीभीपुत्रसंयुताः। निधयः सर्वविद्यानां सुमुखाः सुलभाः परम् । एतेभ्योऽप्यधिको शेयः सौजन्यश्रीनिकेतनः ।। अत्यन्तदाक्षिण्यपरः कल्पनीयोऽनुवादकः॥ अनुवादकलक्षणम्-अनुवादककृत्यम् अनुवादककृत्यं तदत्यन्ताशक्यमुच्यते । आदौ ोया गृहपतेर्वयः कर्म धृतिर्मतिः ।। कृतं च क्रियमाणं च चरित्रं चेष्टितं च तत् । बलाबले शक्तिभाग्यसामर्थ्यनियमादयः ।। अनुवादकसंझोन सम्यगेतेखिला अपि । विज्ञेयाः स्युः पुनरपि तेषां परिषदामपि । मानसं तचरिश च तद्वाक्यानि पृथक् पृथक् । तथाविधायकानां च कार्याकार्यादिकं पुनः॥ उक्तिप्रत्युक्तिवाक्यानि सर्वेषामपिकृत्स्नशः । अनुवादपुरोवादपश्चाद्वावादिकानपि ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy