SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ परिषदि श्रोत्रियस्यैवाधिकारवर्णनम् यत्र त्रयो वा लब्धाः स्युः श्रोत्रियास्तत्र केवलम् । परिषत्त्वं महत्प्राप्तं केवलं भवति ध्रुवम् ॥ ब्रह्मविष्णुमहेशानां इन्द्रादीनां दिवौकसाम् । त्रयस्त्रिंशत्कोटिसंख्याकानां सुमहतामपि ॥ सान्निध्यमपि तत्रैव भवेदेव न संशयः । गङ्गादीनां च सर्वासां नदीनां पुण्यपाथसाम् ।। सप्तानां शतसंख्यानां सर्वपापविरोधिनाम् । षट्कोटिकोटितीर्थानां वेदानां चापि कृत्स्नशः॥ समुद्राणां च सर्वेषां श्रोत्रिया यत्र वा त्रयः । सान्निध्यं तत्र भवति परिषत्त्वं च तत्र हि ॥ यत्राश्रोत्रियसाहन दशसाहस्रमेव वा । परिषत्त्वं न तत्रान्ति तदानुग्रहकत्वकम् ॥ न प्राप्नोत्येव नितरां श्रोत्रियत्वं च केवलम् । शाखाध्ययनतः स्याद्धि तादृग्विप्रो महानति ॥ तदर्थज्ञो यदि पुनः साक्षादीश्वर एव नः॥ शाखाध्ययनहीनानां निन्दा बिना तु शाखाध्ययनं ये संभायां महाजडाः । परिषत्त्वं प्रकुर्वन्ति न तत्त्वं पतिपद्यते ॥ अनुग्रहो यत्कृतस्तै न स तत्फलदायकः । तूष्णीको ह्यकृतप्रायः व्यर्थ एव भवेष सः॥ मन्नौकपूतं तत्कर्म मन्त्रा वेदैकवर्तिनः । तत्तक्रियासाधनाय ते मन्त्राः स्युरपेक्षिताः॥ तस्मात्स्वाधीनमन्त्रा ये ब्राह्मणाः श्रोत्रिया इति । ___ प्रसिद्धाः सर्वकृत्येषु प्रशस्ताः स्युरनुग्रहे ॥ वेदाध्ययनसंस्कारजन्यसंस्कृतभाषया। यथोच्यते तथैव स्यात्तेन ते स्युरनुप्रहे ।। निरपेक्षककर्तारः कर्तुंचाकर्तुमेव च । अन्यथाकर्तुमपि च शक्ताः स्युः सन्ततं हि ते॥ या चित्रप्रलिखिताः मर्त्यदेवसुरद्विषः । गजगोवाजिभुजगमगहर्यक्षवानराः ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy