SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयस्मृतिः गुरुरित्येव विज्ञेयः नाव यः कदाचन । तन्तुमात्रप्रधानोऽपि ब्राह्मणो नामधारकः ।। तथैव ब्रह्मबन्धुर्वा सर्ववन्यो न संशयः । ब्रह्मवीर्यसमुत्पन्नः सर्वकमैकसंश्रयः ।। कर्मभिर्वर्जितो वापि नाममात्रप्रधानकः । सोऽयमब्राह्मणः प्रोक्तः पूजामईति सोऽप्ययम् ।। बामणब्रुवो निन्दा भ्रष्टाविदुष्टसुस्पष्ट व्रात्यकर्मद्विजाख्यकात् । संजातो जातकर्मादि मन्त्रराहित्यसंस्कृतः ॥ नाममात्रोपनयनो मन्त्रोच्चारणमात्रके । तत्पितुस्तस्य वैदग्ध्यस्पष्टराहित्यकर्मतः ।। विप्राभिधानो विप्रागारारात्कृतनिवासतः । अत्यन्ताब्राह्मणत्वेन प्रसिद्धोऽपि पुनस्तराम् ॥ तद्ब्राह्मण्यं गोपनीयं तत्क्रमं चापि वच्मि कः । तत्रत्यैरखिलैस्तस्य मृतिश्राद्धादिकर्मसु॥ ब्राह्मणैर्मन्त्रकार्येषु पालनीयः प्रयत्नतः । न त्याज्यो न बहिष्कार्यों बोधनीयस्तदा तदा। जातित्वेन स्थितो यस्मात् शि (च्छि ) खातन्तुसमन्वितः । यदा तदा स्नानसन्ध्याभासमात्रप्रधानकः॥ सन्ध्यास्नानात्परं भुक्तिविना ताभ्यां न भुज्यते। इज्याचारैककृत्यश्चेत्सर्वैस्तैः कामचारतः ॥ सद्भिः संरक्षणीयः स्याद् ब्राह्मण्यं तादृशं महत् । यद्ययं भुक्तिकालेषु सर्वसाधारणेन वै ॥ अन्नप्रदानकार्येषु महेषु प्रयभूरिषु । समागतश्चेदन्नाय तदा स किल कुत्रचित् ।। कोणभागे पुण्यपङ्क्तिदूरतस्तस्य कल्पयेत् । संस्थानं तादृशैरेव यैः कैश्चिद्रपङ्क्तिभिः॥ . . . दुराचारैर्दु विनीतैश्चर्वणं कारयेदपि । उत्सवेषु विवाहेषु मौज्यादिषु सतां गृहे ॥ ........श्रीमतां भगिनां पुंसां शुचीनां ब्रह्मवादिनाम् । .. अत्यन्नदानकालेषु जातिमात्रोपजीविनाम् ।।... ... ... ... ..
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy