________________
४४
मार्कण्डेयस्मृतिः एतावन्मात्रवर्णानां केवलोच्चारणात्परम् ।
प्राणायामाख्यक कर्म कृतमित्येव चोदितम् ।। एतस्य प्रातिलोम्ये तु कदाचिद्धटते यदि । सप्तकोटिमहामन्त्रजापकोऽसौ भवेद्ध वम्।। सर्वाण्यत्राणिवैष्वेव वर्णव्यत्यासभेदतः । उच्चारणविशेषेण भवेयुः किल तावता ॥ प्राकृतस्यास्य कृत्यस्य समुदीरणतः परम् । प्रयोजनं नैव चास्ति तस्मात्तदुपरम्यते ॥ यद्य क्तमपि तत्सर्व विस्तरं वैदिकस्य तु । कर्ममात्रस्य सततं बाधकं प्रभवेद्धृ वम् ।। इयान्विशेषः सर्वत्र मन्त्रमात्रस्य केवलम् । (सर्वदेव) विशेषेण तदर्थस्यानुचिन्तनम् ।। महातत्कर्मसाद्गुण्यकारकं वीर्यवत्तरम् । श्रेयस्करं विशेषेण चित्तशुद्धिप्रदायकम् ।। एतावन्मात्रतत्कर्म यत्तत्सर्व दिने दिने । नित्यत्वेनैकविहितं सम्यक् चलति तेन चेत् ॥
कवचमुद्रादीनामवैदिकसन्ध्यापरता न्यासबीजाक्षरादीनामस्रादीनां पुनः पुनः। आवृत्तितोध्यानयन्त्रनामतन्त्रादिसंघकैः ।। एकांगमात्रे कृत्स्नानां अतिकालविलम्बतः । प्रधानं कर्म किमपि भवेन्न समनुष्ठितम् ।। मन्त्रस्य कवचादीनामभावे निष्प्रयोजनम् । इत्युक्तशास्त्रं तत्सवं अवैदिकपरं तु तत् ॥ कथं तदितिचेद्भूयस्तच्चापि समुदीर्यते । शुद्धवैदिकमात्रस्य वेदप्रोक्तस्य कर्मणः॥ कर्तव्यत्वेन विहिते प्रकृते तादृशस्य चेत् । कवचन्यासबीजानां मुद्रापञ्जरवर्णने । मालामन्त्रमहामन्त्रशक्तिकीलार्गलार्पणे । एवं सर्वत्र चेद्भूयस्तत्तन्नामसहस्रतः ॥
सन्ध्यामात्रस्य सायं च नालं केवलमेव वै।
कालो जपस्य चेद्भूयः प्रधानस्य कदा क्रिमुः॥ अनन्तरं पुनरपि पाश्चात्यानांतु कर्मणाम् । अग्न्युद्धरणमुख्यानां उत्सर्गो(वारकोभवेत् कालो न लभ्यते तेषां तदेतदखिलं ततः । तान्त्रिके लौकिके वेदानधिकारिण्यवैदिके॥ उपपद्यत वा सम्यक् भवेद्वा न भवेत्तु वा । ऋषिध्यानादिकं चापि मन्त्रार्थज्ञानशून्यके तावन्मानं तु वा भूयादिति निश्चित्य केचन । ऋषिश्छन्दोदेवतादिपरिज्ञानं महत्त्ववः
प्रशंसां कृतवन्तस्ते तावन्मात्रेण केवलम् ॥